Sanskrit & Trika Shaivism (Español-Home)

¡Javascript está deshabilitado! ¡Revisa este enlace!


 Tantrālokaviveka (Tantraloka Viveka): Capítulo I - estrofas 26 a 50 - Shaivismo No dual de Cachemira

Vijñānabhit - Traducción normal


 Introducción

El Tantrālokaviveka comienza. Éste es el segundo grupo de 25 estrofas de las 332 estrofas de las cuales se compone el primer Capítulo (llamado Vijñānabhit).

Por supuesto, insertaré también las estrofas originales sobre las cuales Jayaratha está comentando. Aun cuando no comentaré sobre las estrofas originales ni sobre el comentario de Jayaratha, escribiré algunas notas aclarar un determinado punto cuando sea necesario.

El Sánscrito de Jayaratha estará en color verde oscuro mientras que las estrofas originales de Abhinavagupta, es decir, el Tantrāloka, se exhibirán en color rojo oscuro. A su vez, dentro de la transliteración, las estrofas originales estarán en color marrón, en tanto que los comentarios de Jayaratha aparecerán en negro. Asimismo, dentro de la traducción, las estrofas originales de Abhinavagupta estarán en colores verde y negro, mientras que el comentario de Jayaratha contendrá palabras tanto en color negro como rojo.

Lee el Tantrālokaviveka y experimenta el Supremo Deleite, querido Śiva.

Importante: Todo lo que está entre paréntesis y en cursiva dentro de la traducción ha sido agregado por mí para completar el sentido de una determinada frase u oración. A su vez, todo lo que está entre doble guión (--...--) constituye adicional información aclaratoria también agregada por mí.

al inicio


 Estrofa 26

तदाह


अतो ज्ञेयस्य तत्त्वस्य सामस्त्येनाप्रथात्मकम्।
ज्ञानमेव तदज्ञानं शिवसूत्रेषु भाषितम्॥२६॥


अतो यथोक्ताद्धेतोर्ज्ञेयस्य नीलसुखादेः

ज्ञेयस्य च परं तत्त्वं यः प्रकाशात्मकः शिवः।

इत्यादिवक्ष्यमाणस्वरूपस्य तत्त्वस्य सामस्त्येन तस्य सर्वत्राविशेषात्तदेकघनाकारत्वेनाप्रथात्मकं यदिदं नीलमिदं सुखमिति द्वैतप्रथात्मकत्वादपूर्णं ज्ञानं तदेवाज्ञानं न पुनर्ज्ञानाभावमात्रम् - इत्येतच्छिवसूत्रेषु भाषितमुक्तमित्यर्थः॥२६॥

Tadāha


Ato jñeyasya tattvasya sāmastyenāprathātmakam|
Jñānameva tadajñānaṁ śivasūtreṣu bhāṣitam||26||


Ato yathoktāddhetorjñeyasya nīlasukhādeḥ

Jñeyasya ca paraṁ tattvaṁ yaḥ prakāśātmakaḥ śivaḥ|

ityādivakṣyamāṇasvarūpasya tattvasya sāmastyena tasya sarvatrāviśeṣāttadekaghanākāratvenāprathātmakaṁ yadidaṁ nīlamidaṁ sukhamiti dvaitaprathātmakatvādapūrṇaṁ jñānaṁ tadevājñānaṁ na punarjñānābhāvamātram - Ityetacchivasūtreṣu bhāṣitamuktamityarthaḥ||26||

al inicio


 Estrofa 27

तत्र चैतत्कुत्र दर्शितमित्याशङ्क्याह


चैतन्यमात्मा ज्ञानं च बन्ध इत्यत्र सूत्रयोः।
संश्लेषेतरयोगाभ्यामयमर्थः प्रदर्शितः॥२७॥


संश्लेषेतरयोगाभ्यामिति संहितयान्यथा च अकारप्रश्लेषविश्लेषाभ्यां तेन ज्ञानं बन्धोऽज्ञानं बन्ध इति चायमर्थ इत्यज्ञानशब्दस्यापूर्णज्ञानाभिधानलक्षणः॥२७॥

Tatra caitatkutra darśitamityāśaṅkyāha


Caitanyamātmā jñānaṁ ca bandha ityatra sūtrayoḥ|
Saṁśleṣetarayogābhyāmayamarthaḥ pradarśitaḥ||27||


Saṁśleṣetarayogābhyāmiti saṁhitayānyathā ca akārapraśleṣaviśleṣābhyāṁ tena jñānaṁ bandho'jñānaṁ bandha iti cāyamartha ityajñānaśabdasyāpūrṇajñānābhidhānalakṣaṇaḥ||27||

al inicio


 Estrofas 28-30

एतदेव व्याचष्टे


चैतन्यमिति भावान्तः शब्दः स्वातन्त्र्यमात्रकम्।
अनाक्षिप्तविशेषं सदाह सूत्रे पुरातने॥२८॥
द्वितीयेन तु सूत्रेण क्रियां वा करणं च वा।
ब्रुवता तस्य चिन्मात्ररूपस्य द्वैतमुच्यते॥२९॥
द्वैतप्रथा तदज्ञानं तुच्छत्वाद्बन्ध उच्यते।
तत एव समुच्छेद्यमित्यावृत्त्यानिरूपितम्॥३०॥


इह न किञ्चिदप्यचेतितं भवतीति चितिक्रिया सर्वसामान्यरूपा इति। चेतयतीति चेतनः पूर्णज्ञानक्रियावान् तस्य भावश्चैतन्यं पूर्णज्ञानक्रियावत्त्वं तदेव च परमैश्वर्यस्वभावं स्वातन्त्र्यमुच्यते। तदाह स्वातन्त्र्यमात्रकमिति। स्वातन्त्र्यमेव केवलं स्वातन्त्र्यमात्रकमत एवाह अनाक्षिप्तविशेषमित्यनाक्षिप्ताः स्वसहचारिणोऽपि नित्यत्वव्यापकत्वादयो विशेषा भेदा येन तत्। भावप्रत्ययान्तो हि शब्दः सहचारिधर्मान्तरनिवृत्तिमेव ब्रूतेऽत एव द्रव्याभिधायिनः शब्दस्य विशेषः। यदाहुः

धर्मान्तरप्रतिक्षेपाप्रतिक्षेपौ तयोर्द्वयोः।
सङ्केतभेदस्य पदं ज्ञातृवाञ्छानुरोधतः॥
भेदोऽयमेव सर्वत्र द्रव्यभावाभिधायिनोः।

इति। द्वितीयेनेत्यर्थाद्द्वितीयसूत्रवर्तिना ज्ञानशब्देन ज्ञप्तिर्ज्ञानं जायते येनेति ज्ञानं चेति व्युत्पत्त्या क्रियां करणं च प्राधान्येनाभिदधता तस्य — चैतन्यमात्मा — इत्युक्तस्वरूपस्यात एव चेतयत इति चित् चितिक्रियायां कर्ता तन्मात्रमेव केवलं रूपं यस्य तस्य द्वैतमुच्यते कर्तृकर्मणोः कर्तृकर्मक्रियाणां च भिन्नानामवच्छेदकानामागूरणाद्द्वैतप्रथासूत्रणं क्रियते पूर्णमस्य रूपं नाख्यातीत्यर्थः। तत् तस्मात्संविदद्वैतात्मनः पूर्णस्य रूपस्याख्यानाद्द्वैतप्रथैवाज्ञानमपूर्णं ज्ञानमपूर्णत्वाच्च तदेवापूर्णं मन्यताशुभाशुभवासनाशरीरभुवनाकारस्वभावविविधसङ्कुचितज्ञानरूपतया मलत्रयात्मा बन्ध इत्युच्यते बन्धरूपत्वादेव च तदज्ञानं समुच्छेद्यम्

मलं कर्म च मायीयमाणवमखिलं च यत्।
सर्वं हेयमिति प्रोक्तं...॥

इत्युक्त्या हेयमित्यर्थः। नन्वत्र द्वैतप्रथात्मकत्वादपूर्णं ज्ञानमेवाज्ञानमित्येतत्कुतोऽवगतमित्याशङ्क्योक्तमित्यावृत्त्या निरूपितमिति। आवृत्त्येत्यज्ञानमिति संहितापाततः पुनरावर्तनेनेत्यर्थः॥२८-३०॥

Etadeva vyācaṣṭe


Caitanyamiti bhāvāntaḥ śabdaḥ svātantryamātrakam|
Anākṣiptaviśeṣaṁ sadāha sūtre purātane||28||
Dvitīyena tu sūtreṇa kriyāṁ vā karaṇaṁ ca vā|
Bruvatā tasya cinmātrarūpasya dvaitamucyate||29||
Dvaitaprathā tadajñānaṁ tucchatvādbandha ucyate|
Tata eva samucchedyamityāvṛttyānirūpitam||30||


Iha na kiñcidapyacetitaṁ bhavatīti citikriyā sarvasāmānyarūpā iti| Cetayatīti cetanaḥ pūrṇajñānakriyāvān tasya bhāvaścaitanyaṁ pūrṇajñānakriyāvattvaṁ tadeva ca paramaiśvaryasvabhāvaṁ svātantryamucyate| Tadāha svātantryamātrakamiti| Svātantryameva kevalaṁ svātantryamātrakamata evāha anākṣiptaviśeṣamityanākṣiptāḥ svasahacāriṇo'pi nityatvavyāpakatvādayo viśeṣā bhedā yena tat| Bhāvapratyayānto hi śabdaḥ sahacāridharmāntaranivṛttimeva brūte'ta eva dravyābhidhāyinaḥ śabdasya viśeṣaḥ| Yadāhuḥ

Dharmāntarapratikṣepāpratikṣepau tayordvayoḥ|
Saṅketabhedasya padaṁ jñātṛvāñchānurodhataḥ||
Bhedo'yameva sarvatra dravyabhāvābhidhāyinoḥ|

iti| Dvitīyenetyarthāddvitīyasūtravartinā jñānaśabdena jñaptirjñānaṁ jāyate yeneti jñānaṁ ceti vyutpattyā kriyāṁ karaṇaṁ ca prādhānyenābhidadhatā tasya — Caitanyamātmā — Ityuktasvarūpasyāta eva cetayata iti cit citikriyāyāṁ kartā tanmātrameva kevalaṁ rūpaṁ yasya tasya dvaitamucyate kartṛkarmaṇoḥ kartṛkarmakriyāṇāṁ ca bhinnānāmavacchedakānāmāgūraṇāddvaitaprathāsūtraṇaṁ kriyate pūrṇamasya rūpaṁ nākhyātītyarthaḥ| Tat tasmātsaṁvidadvaitātmanaḥ pūrṇasya rūpasyākhyānāddvaitaprathaivājñānamapūrṇaṁ jñānamapūrṇatvācca tadevāpūrṇaṁ manyatāśubhāśubhavāsanāśarīrabhuvanākārasvabhāvavividhasaṅkucitajñānarūpatayā malatrayātmā bandha ityucyate bandharūpatvādeva ca tadajñānaṁ samucchedyam

Malaṁ karma ca māyīyamāṇavamakhilaṁ ca yat|
Sarvaṁ heyamiti proktaṁ...||

ityuktyā heyamityarthaḥ| Nanvatra dvaitaprathātmakatvādapūrṇaṁ jñānamevājñānamityetatkuto'vagatamityāśaṅkyoktamityāvṛttyā nirūpitamiti| Āvṛttyetyajñānamiti saṁhitāpātataḥ punarāvartanenetyarthaḥ||28-30||

al inicio


 Estrofa 31

नन्वेवं मोक्षस्य लक्षणमभिधीयतामित्याशङ्क्याह


स्वतन्त्रात्मातिरिक्तस्तु तुच्छोऽतुच्छोऽपि कश्चन।
न मोक्षो नाम तन्नास्य पृथङ्नामापि गृह्यते॥३१॥


न कश्चिदन्योऽस्तीति वाक्यशेषः। यदि तुच्छस्तत्पूर्वोक्तनीत्या बन्ध एव स्यादतुच्छश्चेत्पारमार्थिकत्वान्नास्य स्वतन्त्रात्मातिरेकः। यद्वक्ष्यति

मोक्षो हि नाम नैवान्यः स्वरूपप्रथनं हि सः।
स्वरूपं चात्मनः संवित्...॥

इत्यादि। किमुक्तं भवतीह तावदात्मज्ञानं मोक्ष इत्यविवादोऽतो यदेवात्मनो लक्षणं तदेव मोक्षस्येति तन्नान्तरीयकत्वादेवास्य लक्षणसिद्धेः पृथक्लक्षणं न कृतमत एव नामापीत्यपिशब्देन लक्षणादेः पुनः का वार्त्तेत्यावेदितम्॥३१॥

Nanvevaṁ mokṣasya lakṣaṇamabhidhīyatāmityāśaṅkyāha


Svatantrātmātiriktastu tuccho'tuccho'pi kaścana|
Na mokṣo nāma tannāsya pṛthaṅnāmāpi gṛhyate||31||


Na kaścidanyo'stīti vākyaśeṣaḥ| Yadi tucchastatpūrvoktanītyā bandha eva syādatucchaścetpāramārthikatvānnāsya svatantrātmātirekaḥ| Yadvakṣyati

Mokṣo hi nāma naivānyaḥ svarūpaprathanaṁ hi saḥ|
Svarūpaṁ cātmanaḥ saṁvit...||

ityādi| Kimuktaṁ bhavatīha tāvadātmajñānaṁ mokṣa ityavivādo'to yadevātmano lakṣaṇaṁ tadeva mokṣasyeti tannāntarīyakatvādevāsya lakṣaṇasiddheḥ pṛthaklakṣaṇaṁ na kṛtamata eva nāmāpītyapiśabdena lakṣaṇādeḥ punaḥ kā vārttetyāveditam||31||

al inicio


 Estrofa 32

एवमप्यस्य तद्वैलक्षण्यं कटाक्षीकर्तुं दर्शनान्तरोक्तस्य मोक्षस्य स्वरूपमभिधातुमुपक्रमते


यत्तु ज्ञेयसतत्त्वस्य पूर्णपूर्णप्रथात्मकम्।
तदुत्तरोत्तरं ज्ञानं तत्तत्संसारशान्तिदम्॥३२॥


यत् पुन ज्ञेयस्य कलातत्त्वभुवनाद्यात्मनोऽध्वनो यत् सतत्त्वमूर्ध्वोर्ध्वमन्योन्यं च भेदेनावस्थानं तस्योत्तरोत्तरमुपर्युपरिभावेन तत्तद्भुवनाद्युल्लङ्घनक्रमेण तत्तदवेच्छेदापगमाद्यथायथमतिशयाद्द्वैतप्रथात्मकत्वात्सङ्कुचितत्त्वेऽपि पूर्णपूर्णप्रथात्मकं ज्ञानमुदेति तदधरीकृततत्त्वजालोल्लङ्घनात्

चतुर्दशविधं यच्च प्रोक्तं संसारमण्डलम्।

इत्याद्युक्तेस्तस्य तस्य चतुर्दशविधयोन्यात्मनः संसारस्य शान्तिदं तत उन्मोचकमित्यर्थः। ज्ञानस्य हि मोचनमेव धर्मः किन्तु सङ्कुचितस्यासङ्कुचितत्वम्॥३२॥

Evamapyasya tadvailakṣaṇyaṁ kaṭākṣīkartuṁ darśanāntaroktasya mokṣasya svarūpamabhidhātumupakramate


Yattu jñeyasatattvasya pūrṇapūrṇaprathātmakam|
Taduttarottaraṁ jñānaṁ tattatsaṁsāraśāntidam||32||


Yat puna jñeyasya kalātattvabhuvanādyātmano'dhvano yat satattvamūrdhvordhvamanyonyaṁ ca bhedenāvasthānaṁ tasyottarottaramuparyuparibhāvena tattadbhuvanādyullaṅghanakrameṇa tattadavecchedāpagamādyathāyathamatiśayāddvaitaprathātmakatvātsaṅkucitattve'pi pūrṇapūrṇaprathātmakaṁ jñānamudeti tadadharīkṛtatattvajālollaṅghanāt

Caturdaśavidhaṁ yacca proktaṁ saṁsāramaṇḍalam|

ityādyuktestasya tasya caturdaśavidhayonyātmanaḥ saṁsārasya śāntidaṁ tata unmocakamityarthaḥ| Jñānasya hi mocanameva dharmaḥ kintu saṅkucitasyāsaṅkucitatvam||32||

al inicio


 Estrofa 33

एतदेव दर्शयति


रागाद्यकलुषोऽस्म्यन्तःशून्योऽहं कर्तृतोज्झितः।
इत्थं समासव्यासाभ्यां ज्ञानं मुञ्चति तावतः॥३३॥


इत्थं प्रथमार्धनिरूपितस्वरूपं ज्ञानं तावतः परिमिताद्बन्धादर्थाद्बौद्धादीन्मुञ्चतीति सम्बन्धः। तत्र रागाद्यकलुषोऽहं भवामीति ज्ञानं योगाचाराणाम्। यदाहुः

रागादिकलुषं चित्तं संसारस्तद्विमुक्तता।
सङ्क्षेपात्कथितो मोक्षः प्रहीनावरणैर्जिनैः॥

इति। तथा

प्रभास्वरमिदं चित्तं प्रकृत्यागन्तवो मलाः।
तेषामपाये सर्वार्थं तज्ज्योतिरविनश्वरम्॥

इति। अयमत्रार्थः — प्रकृतिप्रभास्वरस्य चित्तस्यानाद्यविद्यावशाद्रागादिभिरागन्तुकैर्मलैरावृतत्वेन संसाराविर्भावेऽपि भावनाद्यात्मकमार्गानुष्ठानबलात्तत्तदागन्तुकमलप्रहाणेन आश्रयपरावृत्त्या अविनश्वरज्योतीरूपस्वरूपाभिव्यक्तिर्मोक्ष इति तदयुक्तम् — भावना ह्यत्र भवद्भिः कारणमिष्यते सा क्षणक्षयिणां चित्तक्षणानां विशेषमाधातुं नोत्सहते तस्याः स्थिरैकाश्रयगतत्वेन विशेषाधानक्षमत्वात्। तथाहि — स्थायिनस्तिलादयो भावाः स्थायिभिरेव सुमनोभिर्वास्यन्ते तथेयमपि स्यादतश्च प्रतिक्षणमपूर्वत्वेनोपजायमानस्य निरन्वयविनाशिलङ्घनाभ्यासवदनासादितातिशयस्य चित्तक्षणस्य प्रभास्वरचित्तक्षणोपजननाय भावना न प्रभवेदित्यनया कोऽर्थः। समलाश्च चित्तक्षणाः स्वारसिक्याः सदृशारम्भणशक्तेः स्वसदृशानेव चित्तक्षणानुत्पादयितुं क्षमन्ते न विसदृशान् प्रभास्वरान्। एवं च चित्तक्षणभङ्गुरत्वान्मलप्रहाणायैव भावना न प्रगल्भेत इत्याश्रयपरावृत्तेः का वार्त्तेति कृतं क्षणिकवादिनां मोक्षेण। बन्धमोक्षौ च स्थिरैकादिपक्षे युज्येते बद्धो हि मोक्षाय प्रवर्तते प्राप्य च निवृत्तो भवतीति सन्तानश्चैको न विद्यते तस्य भेदाभेदविकल्पोपहतत्त्वात्। अन्तः संविद्रूपतायामपि शून्योऽहं भवामीति ज्ञानं माध्यमिकानाम्। ते खलु सर्वभावनैःस्वाभाव्यवादिनः संविदोऽपि नैःस्वाभाव्यान्मिथ्यात्वमभिदधतस्तच्छून्यतायामेव मोक्षमाचक्षीरन्। यदाहुः

चित्तमात्रमिदं विश्वमिति या देशना मुनेः।
तत्त्रासपरिहारार्थं बालानां सा न तत्त्वतः॥
सापि ध्वस्ता महाभागैश्चित्तमात्रव्यवस्थितिः।

इति तदप्युक्तम् — संविदो हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि मिथ्यात्वे सत्तैव न भवेत्तस्या नीलादिवत् परतन्त्ररूपत्वाभावात्नीलादीनां हि मिथ्यात्वेन स्वतन्त्ररूपापाकरणेऽपि संविदात्मतयाऽस्त्यवस्थानं संविदि तु स्फुरत्तामात्रसारायां मिथ्यात्वादसत्त्वमेव स्यादिति न किञ्चित्स्फुरेदिति मूर्छैव स्यादिति। न च संविदः स्फुरत्तामात्रसाररूपाया अपह्नवः शक्यक्रिय इति यत्किञ्चिदेतत्। अथ

सर्वालम्बनधर्मैश्च सर्वसत्त्वैरशेषतः।
सर्वक्लेशाशयैः शून्यं नं शून्यं परमार्थतः॥

इत्याद्युक्तयुक्त्या ग्राह्यग्राहकभावादिना कल्पितेन रूपेण शून्यं न तु संविदापीति चेदेवं ह्युच्यमाने विज्ञानवाद एवाभ्युपगमः स्यात्सोऽपि हि कल्पितपरतन्त्रादिरूपशून्यत्वेन

इत्यन्तःकरणस्यैव विचित्रात्मावभासिनः।
अविभाविततत्त्वस्य विस्फूर्जितमिदं जगत्॥

इत्याद्युक्तेर्विज्ञप्तिमेव परमार्थसतीमभ्युपागमदिति न नवं किञ्चिदायुष्मतोत्प्रेक्षितम्। तत्र चोक्तो दोषोऽकर्ताहं भवामीति ज्ञानं साङ्ख्यानाम्। ते हि निष्क्रियमेवात्मानमभ्युपागमन् अन्यथा हि तस्य चैतन्यं न स्यात् — अचेतनानामेव क्षीरादीनां क्रियावत्त्वोपलब्धेः। अयुक्तं चैतत् — अकर्तृत्वे हि पुरुषस्यानिर्मोक्षः स्यादकिञ्चित्करत्वे हि पुरुषस्योत्पन्नेऽपि विवेकदर्शने स्वरूपेणावस्थानं न स्यात् — प्रवृत्तिस्वभावायाः प्रकृतेरौदासीन्यायोगात्तं प्रत्यपि पुनः सम्भावनायाः सम्भवात्। न च प्रकृतेर्दृष्टाहमनेनेति न पुनरेतदर्थमहं प्रवर्त इत्यनुसन्धानमस्त्याचैतन्यादस्याः — प्रेक्षाकारित्वाभावात्। एवं चेयं कृतेऽपि शब्दाद्युपलम्भे यथा पुनस्तदर्थं प्रवर्तते तथा कृतायामपि विवेकख्यातौ पुनरपि तदर्थं प्रवर्तिष्यते — स्वभावस्यानपेतत्वात्। एवमपि कृतमकृतं न भवति — इति सङ्कुचितमपि ज्ञानं बौद्धादीनां निजोचितामर्थक्रियां विदध्यात्। तथाहि बौद्धाः

एकमेवेदं संविद्रूपं हर्षविषादाद्यनेकाकारविवर्तं पश्यामः॥

इत्याद्युक्तयुक्त्या बुद्धिवृत्त्यात्मकं ज्ञानमेव तत्त्वं प्रतिपन्ना इति बुद्धितत्त्वप्राप्तिरेवैषां मोक्षः। तदुक्तम्

ब्रह्मा तत्राधिपत्वेन बुद्धितत्त्वे व्यवस्थितः।
सर्वज्ञं च तमेवाहुर्बौद्धानां परमं पदम्॥

इति। अत एवैषां बुद्धितत्त्वाधोवर्तिनः संसारस्य शान्तिः। एवं च ज्ञानं मुञ्चति तावत इति युक्तमुक्तम्। साङ्ख्याश्च सुखदुःखाद्यात्मकप्रकृतिपृथग्भावेन पुंस एव स्वरूपेणावस्थानं तत्त्वं प्रतिपन्ना इति पुंस्तत्त्वप्राप्तिरेवैषां मोक्षः। तदुक्तम्

पौरुषं चैव साङ्ख्यानां सुखदुःखादिवर्जितम्।

इति। नैरात्म्यदृष्टेश्चात्मदृष्टिर्विशिष्यत इति साङ्ख्यानां बौद्धेभ्यः पूर्णप्रथात्मकं ज्ञानमित्येषां बुद्धितत्त्वोर्ध्ववर्तिपुंस्तत्त्वप्राप्तिः। एवं च पूर्णप्रथात्मकमुत्तरोत्तरं ज्ञानमित्यादिः पूर्वसूत्रप्रतिज्ञातोऽर्थो निर्वाहितः। एवं साङ्ख्यपातञ्जलयोः प्रकृतिपृथग्भावेन पुंज्ञानस्य साम्येऽपि साङ्ख्येभ्यः पातञ्जलानामीश्वरप्रणिधानात्तद्विशिष्यत इति तेषां पुंस्तत्त्वोर्ध्ववर्तिनियतितत्त्वप्राप्तिरुक्ता।

षडविंशकं तु देवेशि योगशास्त्रे परं पदम्।

इति। एवं च मौसुलपाशुपतादीनामपि यथायथं ज्ञानातिशयादूर्ध्वोर्ध्वतत्त्वावाप्तिः परं पदमिति। तदुक्तम्

मौसुले कारूके चैव मायातत्त्वं प्रकीर्तितम्।

इति। तथा

व्रते पाशुपते प्रोक्तमैश्वरं परमं पदम्।

इति। तत्रैवं बौद्धादीनां मायीयादेव मलादंशांशिकया मौसुलानां कार्मादपि पाशुपतानामनात्मन्यात्माभिमानादाणवादपि मलान्मोचकं ज्ञानमित्युक्तं समासव्यासाभ्यामिति॥३३॥

Etadeva darśayati


Rāgādyakaluṣo'smyantaḥśūnyo'haṁ kartṛtojjhitaḥ|
Itthaṁ samāsavyāsābhyāṁ jñānaṁ muñcati tāvataḥ||33||


Itthaṁ prathamārdhanirūpitasvarūpaṁ jñānaṁ tāvataḥ parimitādbandhādarthādbauddhādīnmuñcatīti sambandhaḥ| Tatra rāgādyakaluṣo'haṁ bhavāmīti jñānaṁ yogācārāṇām| Yadāhuḥ

Rāgādikaluṣaṁ cittaṁ saṁsārastadvimuktatā|
Saṅkṣepātkathito mokṣaḥ prahīnāvaraṇairjinaiḥ||

iti| Tathā

Prabhāsvaramidaṁ cittaṁ prakṛtyāgantavo malāḥ|
Teṣāmapāye sarvārthaṁ tajjyotiravinaśvaram||

iti| Ayamatrārthaḥ — Prakṛtiprabhāsvarasya cittasyānādyavidyāvaśādrāgādibhirāgantukairmalairāvṛtatvena saṁsārāvirbhāve'pi bhāvanādyātmakamārgānuṣṭhānabalāttattadāgantukamalaprahāṇena āśrayaparāvṛttyā avinaśvarajyotīrūpasvarūpābhivyaktirmokṣa iti tadayuktam — Bhāvanā hyatra bhavadbhiḥ kāraṇamiṣyate sā kṣaṇakṣayiṇāṁ cittakṣaṇānāṁ viśeṣamādhātuṁ notsahate tasyāḥ sthiraikāśrayagatatvena viśeṣādhānakṣamatvāt| Tathāhi — Sthāyinastilādayo bhāvāḥ sthāyibhireva sumanobhirvāsyante tatheyamapi syādataśca pratikṣaṇamapūrvatvenopajāyamānasya niranvayavināśilaṅghanābhyāsavadanāsāditātiśayasya cittakṣaṇasya prabhāsvaracittakṣaṇopajananāya bhāvanā na prabhavedityanayā ko'rthaḥ| Samalāśca cittakṣaṇāḥ svārasikyāḥ sadṛśārambhaṇaśakteḥ svasadṛśāneva cittakṣaṇānutpādayituṁ kṣamante na visadṛśān prabhāsvarān| Evaṁ ca cittakṣaṇabhaṅguratvānmalaprahāṇāyaiva bhāvanā na pragalbheta ityāśrayaparāvṛtteḥ kā vārtteti kṛtaṁ kṣaṇikavādināṁ mokṣeṇa| Bandhamokṣau ca sthiraikādipakṣe yujyete baddho hi mokṣāya pravartate prāpya ca nivṛtto bhavatīti santānaścaiko na vidyate tasya bhedābhedavikalpopahatattvāt| Antaḥ saṁvidrūpatāyāmapi śūnyo'haṁ bhavāmīti jñānaṁ mādhyamikānām| Te khalu sarvabhāvanaiḥsvābhāvyavādinaḥ saṁvido'pi naiḥsvābhāvyānmithyātvamabhidadhatastacchūnyatāyāmeva mokṣamācakṣīran| Yadāhuḥ

Cittamātramidaṁ viśvamiti yā deśanā muneḥ|
Tattrāsaparihārārthaṁ bālānāṁ sā na tattvataḥ||
Sāpi dhvastā mahābhāgaiścittamātravyavasthitiḥ|

iti tadapyuktam — Saṁvido hi mithyātvena svatantrarūpāpākaraṇe'pi mithyātve sattaiva na bhavettasyā nīlādivat paratantrarūpatvābhāvātnīlādīnāṁ hi mithyātvena svatantrarūpāpākaraṇe'pi saṁvidātmatayā'styavasthānaṁ saṁvidi tu sphurattāmātrasārāyāṁ mithyātvādasattvameva syāditi na kiñcitsphurediti mūrchaiva syāditi| Na ca saṁvidaḥ sphurattāmātrasārarūpāyā apahnavaḥ śakyakriya iti yatkiñcidetat| Atha

Sarvālambanadharmaiśca sarvasattvairaśeṣataḥ|
Sarvakleśāśayaiḥ śūnyaṁ naṁ śūnyaṁ paramārthataḥ||

ityādyuktayuktyā grāhyagrāhakabhāvādinā kalpitena rūpeṇa śūnyaṁ na tu saṁvidāpīti cedevaṁ hyucyamāne vijñānavāda evābhyupagamaḥ syātso'pi hi kalpitaparatantrādirūpaśūnyatvena

Ityantaḥkaraṇasyaiva vicitrātmāvabhāsinaḥ|
Avibhāvitatattvasya visphūrjitamidaṁ jagat||

ityādyuktervijñaptimeva paramārthasatīmabhyupāgamaditi na navaṁ kiñcidāyuṣmatotprekṣitam| Tatra cokto doṣo'kartāhaṁ bhavāmīti jñānaṁ sāṅkhyānām| Te hi niṣkriyamevātmānamabhyupāgaman anyathā hi tasya caitanyaṁ na syāt — Acetanānāmeva kṣīrādīnāṁ kriyāvattvopalabdheḥ| Ayuktaṁ caitat — Akartṛtve hi puruṣasyānirmokṣaḥ syādakiñcitkaratve hi puruṣasyotpanne'pi vivekadarśane svarūpeṇāvasthānaṁ na syāt — Pravṛttisvabhāvāyāḥ prakṛteraudāsīnyāyogāttaṁ pratyapi punaḥ sambhāvanāyāḥ sambhavāt| Na ca prakṛterdṛṣṭāhamaneneti na punaretadarthamahaṁ pravarta ityanusandhānamastyācaitanyādasyāḥ — Prekṣākāritvābhāvāt| Evaṁ ceyaṁ kṛte'pi śabdādyupalambhe yathā punastadarthaṁ pravartate tathā kṛtāyāmapi vivekakhyātau punarapi tadarthaṁ pravartiṣyate — Svabhāvasyānapetatvāt| Evamapi kṛtamakṛtaṁ na bhavati — Iti saṅkucitamapi jñānaṁ bauddhādīnāṁ nijocitāmarthakriyāṁ vidadhyāt| Tathāhi bauddhāḥ

Ekamevedaṁ saṁvidrūpaṁ harṣaviṣādādyanekākāravivartaṁ paśyāmaḥ||

ityādyuktayuktyā buddhivṛttyātmakaṁ jñānameva tattvaṁ pratipannā iti buddhitattvaprāptirevaiṣāṁ mokṣaḥ| Taduktam

Brahmā tatrādhipatvena buddhitattve vyavasthitaḥ|
Sarvajñaṁ ca tamevāhurbauddhānāṁ paramaṁ padam||

iti| Ata evaiṣāṁ buddhitattvādhovartinaḥ saṁsārasya śāntiḥ| Evaṁ ca jñānaṁ muñcati tāvata iti yuktamuktam| Sāṅkhyāśca sukhaduḥkhādyātmakaprakṛtipṛthagbhāvena puṁsa eva svarūpeṇāvasthānaṁ tattvaṁ pratipannā iti puṁstattvaprāptirevaiṣāṁ mokṣaḥ| Taduktam

Pauruṣaṁ caiva sāṅkhyānāṁ sukhaduḥkhādivarjitam|

iti| Nairātmyadṛṣṭeścātmadṛṣṭirviśiṣyata iti sāṅkhyānāṁ bauddhebhyaḥ pūrṇaprathātmakaṁ jñānamityeṣāṁ buddhitattvordhvavartipuṁstattvaprāptiḥ| Evaṁ ca pūrṇaprathātmakamuttarottaraṁ jñānamityādiḥ pūrvasūtrapratijñāto'rtho nirvāhitaḥ| Evaṁ sāṅkhyapātañjalayoḥ prakṛtipṛthagbhāvena puṁjñānasya sāmye'pi sāṅkhyebhyaḥ pātañjalānāmīśvarapraṇidhānāttadviśiṣyata iti teṣāṁ puṁstattvordhvavartiniyatitattvaprāptiruktā|

Ṣaḍaviṁśakaṁ tu deveśi yogaśāstre paraṁ padam|

iti| Evaṁ ca mausulapāśupatādīnāmapi yathāyathaṁ jñānātiśayādūrdhvordhvatattvāvāptiḥ paraṁ padamiti| Taduktam

Mausule kārūke caiva māyātattvaṁ prakīrtitam|

iti| Tathā

Vrate pāśupate proktamaiśvaraṁ paramaṁ padam|

iti| Tatraivaṁ bauddhādīnāṁ māyīyādeva malādaṁśāṁśikayā mausulānāṁ kārmādapi pāśupatānāmanātmanyātmābhimānādāṇavādapi malānmocakaṁ jñānamityuktaṁ samāsavyāsābhyāmiti||33||

al inicio


 Estrofa 34

ननु स्वदर्शनौचित्येनैवं बन्धविगलनेऽपि किमिति नासौ मुक्त इत्याशङ्क्याह


तस्मान्मुक्तोऽप्यवच्छेदादवच्छेदान्तरस्थिरेः।
अमुक्त एव मुक्तस्तु सर्वावच्छेदवर्जितः॥३४॥


... अध्वा बन्धस्य कारणम्।

इत्युक्तेरध्वा तावद्बन्धकः। तत्र बौद्धादयो बुद्धितत्त्वान्तबन्धविगलनात्तन्मुक्ता अपि तदूर्ध्ववर्त्यध्वान्तरावच्छेदस्थितेरमुक्ता एवात एवैषां पुनरपि सर्गारम्भे सृज्यमानत्वात्संसाराविर्भावः — बन्धकारणस्य निःशेषेणाप्रक्षयात्। यद्वक्ष्यति

साङ्ख्यवेदादिसंसिद्धान् श्रीकण्ठस्तदहर्मुखे।
सृजत्येव पुनस्तेन न सम्यङ्मुक्तिरीदृशी॥

इति। श्रीस्वच्छन्दशास्त्रेऽपि

लौकिकानां पुनः सृष्टिः पुनः संहार एव च।
संसारचक्रमारूढा भवन्ति घटयन्त्रवत्॥

इत्यादि सामान्येनाभिधाय

मुक्तं च प्रतिबन्धात्तं पुनर्बध्नाति चेश्वरः।
बन्धः संसारतो भूयो यावद्देवं न विन्दति॥

इति बौद्धाद्यवान्तरदर्शनमुक्तोपलक्षणपरतया विशेषेणोक्तम्। यः पुनर्निःशेषप्रक्षीणसर्वाध्वबन्धः स एव साक्षान्मुक्त इत्याह मुक्तस्तु सर्वावच्छेदवर्जित इति। यदुक्तम्

सर्वाध्वनो विनिष्क्रान्तं शैवानां तु परं पदम्।

इति। तथा

शैवः सिद्धो भाति मूर्ध्नातरेषां मुक्तः सृष्टौ पुनरभ्येति नाधः।

इति॥३४॥

Nanu svadarśanaucityenaivaṁ bandhavigalane'pi kimiti nāsau mukta ityāśaṅkyāha


Tasmānmukto'pyavacchedādavacchedāntarasthireḥ|
Amukta eva muktastu sarvāvacchedavarjitaḥ||34||


... adhvā bandhasya kāraṇam|

ityukteradhvā tāvadbandhakaḥ| Tatra bauddhādayo buddhitattvāntabandhavigalanāttanmuktā api tadūrdhvavartyadhvāntarāvacchedasthiteramuktā evāta evaiṣāṁ punarapi sargārambhe sṛjyamānatvātsaṁsārāvirbhāvaḥ — Bandhakāraṇasya niḥśeṣeṇāprakṣayāt| Yadvakṣyati

Sāṅkhyavedādisaṁsiddhān śrīkaṇṭhastadaharmukhe|
Sṛjatyeva punastena na samyaṅmuktirīdṛśī||

iti| Śrīsvacchandaśāstre'pi

Laukikānāṁ punaḥ sṛṣṭiḥ punaḥ saṁhāra eva ca|
Saṁsāracakramārūḍhā bhavanti ghaṭayantravat||

ityādi sāmānyenābhidhāya

Muktaṁ ca pratibandhāttaṁ punarbadhnāti ceśvaraḥ|
Bandhaḥ saṁsārato bhūyo yāvaddevaṁ na vindati||

iti bauddhādyavāntaradarśanamuktopalakṣaṇaparatayā viśeṣeṇoktam| Yaḥ punarniḥśeṣaprakṣīṇasarvādhvabandhaḥ sa eva sākṣānmukta ityāha muktastu sarvāvacchedavarjita iti| Yaduktam

Sarvādhvano viniṣkrāntaṁ śaivānāṁ tu paraṁ padam|

iti| Tathā

Śaivaḥ siddho bhāti mūrdhnātareṣāṁ muktaḥ sṛṣṭau punarabhyeti nādhaḥ|

iti||34||

al inicio


 Estrofa 35

अत्र चैवंविधमेव पूर्णं ज्ञानं निमित्तमित्याह


यत्तु ज्ञेयसतत्त्वस्य ज्ञानं सर्वात्मनोज्झितम्।
अवच्छेदैर्न तत्कुत्राप्यज्ञानं सत्यमुक्तिदम्॥३५॥


अवच्छेदैः सङ्कोचाधायिभिरिदन्तापरामर्शैः शर्वात्मना सर्वप्रकारं वासनामात्रेणापि यदुज्झितं पराहन्तापरामर्शसारमित्यर्थः। अत एव च पूर्णप्रथात्मकत्वान्न तत् कुत्राप्यज्ञानमतश्च शत्यां मुक्त्याभासविलक्षणां मुक्तिं ददात्यहम्परामर्शसारप्रमात्रैकात्म्येन स्फुरतीत्यर्थः॥३५॥

Atra caivaṁvidhameva pūrṇaṁ jñānaṁ nimittamityāha


Yattu jñeyasatattvasya jñānaṁ sarvātmanojjhitam|
Avacchedairna tatkutrāpyajñānaṁ satyamuktidam||35||


Avacchedaiḥ saṅkocādhāyibhiridantāparāmarśaiḥ śarvātmanā sarvaprakāraṁ vāsanāmātreṇāpi yadujjhitaṁ parāhantāparāmarśasāramityarthaḥ| Ata eva ca pūrṇaprathātmakatvānna tat kutrāpyajñānamataśca śatyāṁ muktyābhāsavilakṣaṇāṁ muktiṁ dadātyahamparāmarśasārapramātraikātmyena sphuratītyarthaḥ||35||

al inicio


 Estrofa 36

इदानीमुद्दिष्टयोर्ज्ञानाज्ञानयोरेव स्वरूपं विभजति


ज्ञानाज्ञानस्वरूपं यदुक्तं प्रत्येकमप्यदः।
द्विधा पौरुषबौद्धत्वभिदोक्तं शिवशासने॥३६॥


शिवशासन इति पञ्चस्रोतोरूपे पारमेश्वरदर्शन इत्यर्थः। एतद्धि सर्वत्रैवाविशेषेणोक्तम्॥३६॥

Idānīmuddiṣṭayorjñānājñānayoreva svarūpaṁ vibhajati


Jñānājñānasvarūpaṁ yaduktaṁ pratyekamapyadaḥ|
Dvidhā pauruṣabauddhatvabhidoktaṁ śivaśāsane||36||


Śivaśāsana iti pañcasrotorūpe pārameśvaradarśana ityarthaḥ| Etaddhi sarvatraivāviśeṣeṇoktam||36||

al inicio


 Estrofas 37-38

तदेव लक्षयति


तत्र पुंसो यदज्ञानं मलाख्यं तज्जमप्यथ।
स्वपूर्णचित्क्रियारूपशिवतावरणात्मकम्॥३७॥
सङ्कोचिदृक्क्रियारूपं तत्पशोरविकल्पितम्।


अथशब्द आनन्तर्य उद्देशानन्तरं हि लक्षणपरीक्षयोरवसर इत्याशयः। तत्र द्विविधयोर्ज्ञानाज्ञानयोर्मध्यात्

... पुंसः प्रादुर्भवत्परम्।

इत्यस्यात्मनोऽपि यत्समनन्तरोक्तस्वरूपं मलाख्यमनन्यसाधारणानवच्छिन्नज्ञानक्रियायोगि परप्रमातृरूपाच्छिवादेव जातमुद्भूतमित्यर्थः। परमेश्वर एव हि स्वस्वातन्त्र्यात्पूर्णज्ञत्वकर्तृत्वाद्यपहस्तनेनाख्यात्यात्मकाणवमलाविर्भावेन स्वात्मानमावृणुयात्। तदुक्तम्

परमं यत्स्वातन्त्र्यं दुर्घटसम्पादनं महेशस्य।
देवी मायाशक्तिः स्वात्मावरणं शिवस्यैतत्॥
मायापरिग्रहवशाद्बोधो मलिनः पुमान्पशुर्भवति।

इति। वक्ष्यति च

तेन स्वरूपस्वातन्त्र्यमात्रं मलविजृम्भितम्।

इति। तदेव पशोराणवादिमलत्रययोगिनोऽपि तस्य मातुर्देशकालाद्यवच्छिन्नत्वान्नियतदृक्क्रियास्वाभासालोचनात्मकं ज्ञानम्। परमेश्वर एव हि सर्वज्ञताद्यपहस्तनेनाणुतां प्रापितस्य स्वात्मनः पुनरपि कलादियोगं कृतवान् येनास्य नियतं ज्ञत्वकर्तृत्वाद्यभियुक्तम्। तदुक्तम्

असूत सा कलातत्त्वं यद्योगादभवत्पुमान्।
जातकर्तृत्वसामर्थ्यो विद्यारागौ ततोऽसृजत्॥
विद्या विवेचयत्यस्य कर्म तत्कार्यकारणे।
रागोऽपि रञ्जयत्येनं स्वभोगेष्वशुचिष्वपि॥
नियतिर्योजयत्येनं स्वके कर्मणि पुद्गलम्।
कालोऽपि कलयत्येनं तुट्यादिभिरवस्थितः॥

इति। ज्ञानस्वरूपस्य प्रथममुद्देशेऽप्यवश्योच्छेद्यत्वप्रतिपादनार्थमादावज्ञानस्वरूपं निरूपितम्॥

ननु पुंसो बुद्धिवृत्त्यात्मकं ज्ञानं निर्विकल्पकमित्युच्यते तत्कथमेतद्बुद्ध्यंशोपनिपाति न स्यादित्याशङ्क्याह


तदज्ञानं न बुद्ध्यंशोऽध्यवसायाद्यभावतः॥३८॥


एवमपि हि बुद्धेः

अध्यवसायो बुद्धिः

इत्याद्युक्तेरध्यवसाय एव मुख्यं रूपं कथमस्यैतदभावे तद्धर्मत्वं स्यात्॥३७-३८॥

Tadeva lakṣayati


Tatra puṁso yadajñānaṁ malākhyaṁ tajjamapyatha|
Svapūrṇacitkriyārūpaśivatāvaraṇātmakam||37||
Saṅkocidṛkkriyārūpaṁ tatpaśoravikalpitam|


Athaśabda ānantarya uddeśānantaraṁ hi lakṣaṇaparīkṣayoravasara ityāśayaḥ| Tatra dvividhayorjñānājñānayormadhyāt

... puṁsaḥ prādurbhavatparam|

ityasyātmano'pi yatsamanantaroktasvarūpaṁ malākhyamananyasādhāraṇānavacchinnajñānakriyāyogi parapramātṛrūpācchivādeva jātamudbhūtamityarthaḥ| Parameśvara eva hi svasvātantryātpūrṇajñatvakartṛtvādyapahastanenākhyātyātmakāṇavamalāvirbhāvena svātmānamāvṛṇuyāt| Taduktam

Paramaṁ yatsvātantryaṁ durghaṭasampādanaṁ maheśasya|
Devī māyāśaktiḥ svātmāvaraṇaṁ śivasyaitat||
Māyāparigrahavaśādbodho malinaḥ pumānpaśurbhavati|

iti| Vakṣyati ca

Tena svarūpasvātantryamātraṁ malavijṛmbhitam|

iti| Tadeva paśorāṇavādimalatrayayogino'pi tasya māturdeśakālādyavacchinnatvānniyatadṛkkriyāsvābhāsālocanātmakaṁ jñānam| Parameśvara eva hi sarvajñatādyapahastanenāṇutāṁ prāpitasya svātmanaḥ punarapi kalādiyogaṁ kṛtavān yenāsya niyataṁ jñatvakartṛtvādyabhiyuktam| Taduktam

Asūta sā kalātattvaṁ yadyogādabhavatpumān|
Jātakartṛtvasāmarthyo vidyārāgau tato'sṛjat||
Vidyā vivecayatyasya karma tatkāryakāraṇe|
Rāgo'pi rañjayatyenaṁ svabhogeṣvaśuciṣvapi||
Niyatiryojayatyenaṁ svake karmaṇi pudgalam|
Kālo'pi kalayatyenaṁ tuṭyādibhiravasthitaḥ||

iti| Jñānasvarūpasya prathamamuddeśe'pyavaśyocchedyatvapratipādanārthamādāvajñānasvarūpaṁ nirūpitam||

Nanu puṁso buddhivṛttyātmakaṁ jñānaṁ nirvikalpakamityucyate tatkathametadbuddhyaṁśopanipāti na syādityāśaṅkyāha


Tadajñānaṁ na buddhyaṁśo'dhyavasāyādyabhāvataḥ||38||


Evamapi hi buddheḥ

Adhyavasāyo buddhiḥ

ityādyukteradhyavasāya eva mukhyaṁ rūpaṁ kathamasyaitadabhāve taddharmatvaṁ syāt||37-38||

al inicio


 Estrofas 39-40

अत एवाह


अहमित्थमिदं वेद्मीत्येवमध्यवसायिनी।
षट्कञ्चुकाबिलाणूत्थप्रतिबिम्बनतो यदा॥३९॥
धीर्जायते तदा तादृग्ज्ञानमज्ञानशब्दितम्।
बौद्धं तस्य च तत्पौंस्नं पोषणीयं च पोष्टृ च॥४०॥


अस्याश्चैवमध्यवसाययोगित्वे हेतुः षट्कञ्चुक इति। षट्कञ्चुकैः

कालकलानियतिबलाद्रागाविद्यावशेन सम्बद्धः।
अधुनैव किञ्चिदेवेदमेव सर्वात्मनैव जानामि।
मायासहितं कञ्चुकषट्कर्मणोरन्तरङ्गमिदमुक्तम्॥

इत्यादिना निरूपितस्वरूपैराबिलः प्रतिनियतज्ञत्वकर्तृत्वाद्युत्पत्त्या म्लानप्रायो योऽसावणुः परिमितात्मा ततो जातात्प्रतिबिम्बनाच्चिच्छायासङ्क्रमणादित्यर्थः। एवं ह्यस्याः पुम्बोधव्यक्तिभूमित्वादेवंस्वभावो भवेदिति भावः। तादृगित्येवमध्यवसायरूपम्। अनयोश्च परस्परं कार्यकारणभावं दर्शयितुमाह तस्येत्यादि तस्येति बौद्धस्य पौस्नं पुंसि भवं पौरुषमित्यर्थः। पोषणीयं कार्यमित्यर्थः। कामशोकाद्यावेशभाजो हि तन्मयतानुसन्धानादिना तत्तदर्थसाक्षात्कारात्मकमविकल्पकं ज्ञानमुदियात्। यदाहुः

कामशोकभयोन्मादचौरस्वप्नाद्युपप्लुताः।
अभूतानपि पश्यन्ति पुरतोऽवस्थितानिव॥

इति। पोष्ट्रिति कारणम्। स्वप्नादावप्यनुभव एव हि प्राच्यो निमित्तं नहि नारिकेलद्वीपवासिनो वह्निविकल्पादाविच्छापि भवेत्॥३९-४०॥

Ata evāha


Ahamitthamidaṁ vedmītyevamadhyavasāyinī|
Ṣaṭkañcukābilāṇūtthapratibimbanato yadā||39||
Dhīrjāyate tadā tādṛgjñānamajñānaśabditam|
Bauddhaṁ tasya ca tatpauṁsnaṁ poṣaṇīyaṁ ca poṣṭṛ ca||40||


Asyāścaivamadhyavasāyayogitve hetuḥ ṣaṭkañcuka iti| Ṣaṭkañcukaiḥ

Kālakalāniyatibalādrāgāvidyāvaśena sambaddhaḥ|
Adhunaiva kiñcidevedameva sarvātmanaiva jānāmi|
Māyāsahitaṁ kañcukaṣaṭkarmaṇorantaraṅgamidamuktam||

ityādinā nirūpitasvarūpairābilaḥ pratiniyatajñatvakartṛtvādyutpattyā mlānaprāyo yo'sāvaṇuḥ parimitātmā tato jātātpratibimbanāccicchāyāsaṅkramaṇādityarthaḥ| Evaṁ hyasyāḥ pumbodhavyaktibhūmitvādevaṁsvabhāvo bhavediti bhāvaḥ| Tādṛgityevamadhyavasāyarūpam| Anayośca parasparaṁ kāryakāraṇabhāvaṁ darśayitumāha tasyetyādi tasyeti bauddhasya pausnaṁ puṁsi bhavaṁ pauruṣamityarthaḥ| Poṣaṇīyaṁ kāryamityarthaḥ| Kāmaśokādyāveśabhājo hi tanmayatānusandhānādinā tattadarthasākṣātkārātmakamavikalpakaṁ jñānamudiyāt| Yadāhuḥ

Kāmaśokabhayonmādacaurasvapnādyupaplutāḥ|
Abhūtānapi paśyanti purato'vasthitāniva||

iti| Poṣṭriti kāraṇam| Svapnādāvapyanubhava eva hi prācyo nimittaṁ nahi nārikeladvīpavāsino vahnivikalpādāvicchāpi bhavet||39-40||

al inicio


 Estrofas 41-42

एवमज्ञानं निरूप्य ज्ञानमपि द्विविधं निरूपयितुमाह


क्षीणे तु पशुसंस्कारे पुंसः प्राप्तपरस्थितेः।
विकस्वरं तद्विज्ञानं पौरुषं निर्विकल्पकम्॥४१॥
विकस्वराविकल्पात्मज्ञानौचित्येन यावसा।
तद्बौद्धं यस्य तत्पौंस्नं प्राग्वत्पोष्यं च पोष्टृ च॥४२॥


पशोराणवस्यापि वासनामात्रक्षयाभिधानान्निमित्ताभावे नैमित्तिकस्याप्यभाव इति न्यायेन कार्ममायीययोरपि प्रक्षयान्निवृत्तनिखिलबन्धस्य पुंसोऽत एव प्राप्तपरमचिदैकात्म्यस्य विकस्वरं पराहन्ताविमर्शात्मकं निर्विकल्पकं कृत्रिमाहङ्कारादिविकल्पविलक्षणं ज्ञानं पौरुषं भवतीति वाक्यार्थः। औचित्येनेति तद्वत्पूर्णेनात्मनेत्यर्थः। अतश्च सर्वो ममायं विभव इत्येवंरूपत्वमस्याः। यस्येति बौद्धज्ञानस्य। प्राग्वदिति यथैवाज्ञानयोः परस्परं पोष्यपोषकभावस्तथैवेत्यर्थः। तथैव पूर्णापूर्णत्वेन पुनो विशेषो ग्राह्योऽन्यथा हि ज्ञानाज्ञानयोः स्वरूपमेवाभिहितं न स्यात्॥४१-४२॥

Evamajñānaṁ nirūpya jñānamapi dvividhaṁ nirūpayitumāha


Kṣīṇe tu paśusaṁskāre puṁsaḥ prāptaparasthiteḥ|
Vikasvaraṁ tadvijñānaṁ pauruṣaṁ nirvikalpakam||41||
Vikasvarāvikalpātmajñānaucityena yāvasā|
Tadbauddhaṁ yasya tatpauṁsnaṁ prāgvatpoṣyaṁ ca poṣṭṛ ca||42||


Paśorāṇavasyāpi vāsanāmātrakṣayābhidhānānnimittābhāve naimittikasyāpyabhāva iti nyāyena kārmamāyīyayorapi prakṣayānnivṛttanikhilabandhasya puṁso'ta eva prāptaparamacidaikātmyasya vikasvaraṁ parāhantāvimarśātmakaṁ nirvikalpakaṁ kṛtrimāhaṅkārādivikalpavilakṣaṇaṁ jñānaṁ pauruṣaṁ bhavatīti vākyārthaḥ| Aucityeneti tadvatpūrṇenātmanetyarthaḥ| Ataśca sarvo mamāyaṁ vibhava ityevaṁrūpatvamasyāḥ| Yasyeti bauddhajñānasya| Prāgvaditi yathaivājñānayoḥ parasparaṁ poṣyapoṣakabhāvastathaivetyarthaḥ| Tathaiva pūrṇāpūrṇatvena puno viśeṣo grāhyo'nyathā hi jñānājñānayoḥ svarūpamevābhihitaṁ na syāt||41-42||

al inicio


 Estrofa 43

नन्वेवंविधमज्ञानं तावदनाद्येवावस्थितमिति नास्ति विवाद एतदभावात्मकं ज्ञानं पुनः कदा समुदियादेतदभावे च किं निमित्तमित्याशङ्क्याह


तत्र दीक्षादिना पौंस्नमज्ञानं ध्वंसि यद्यपि।
तथापि तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटम्॥४३॥


यद्यप्युक्तस्वरूपम् पौंस्नमज्ञानम्

दीयते ज्ञानसद्भावः क्षीयन्ते पशुवासनाः।
दानक्षपणसंयुक्ता दीक्षा तेनेह कीर्तिता॥

इत्याद्युक्तस्वरूपया दीक्षया नश्यत्येव तथापि तद् अज्ञानाभावमात्ररूपमात्मज्ञानं व्यक्त्युन्मुखमपि

... प्रारब्ध्रेकं न शोधयेत्।

इत्याद्युक्तेरिदंशरीरारम्भकस्य कार्ममलस्य सद्भावात्तस्य वर्तमानशरीरस्यान्ते स्फुटं व्यज्यते

... देहपाते शिवं व्रजेत्।

इत्याद्युक्त्या साक्षात्कारात्म स्फुरतीत्यर्थः। आदिशब्दाच्च शेषवृत्त्या ग्रहणं न तु तीव्रतरशक्तिपातादेस्तद्धि दीक्षायां निमित्तमिति तद्वचनेनैवास्य ग्रहः सिद्धो न चास्मिन्दीक्षातोऽन्यत्किञ्चिन्मुक्तौ निमित्तम्। तदुक्तम्

तस्मात्प्रवितताद्बन्धात्परस्थानविरोधकात्।
दीक्षैव मोचयत्यूर्ध्वं शैवं धाम नयत्यपि॥

इति। तीव्रतमशक्तिपातादौ पुनरनुपायादिक्रमेण दीक्षा भवेद्येनास्य तत्कालमेवापवर्गः। तदुक्तम्

तत्सम्बन्धात्ततः कश्चित्तत्क्षणादपवृज्यते।

इति। दीक्षानिरपेक्षमेव पुनरेतन्मुक्तौ निमित्तमिति न सम्भाव्यमेवं श्रुतिविरोधः स्यात्।

तस्य दीक्षां विनैवात्मसंस्कारपरिणामतः।
सम्यग्ज्ञानं भवेत्सर्वशास्त्रेषु परिनिष्ठितम्॥

इत्यादौ पुनर्बाह्यक्रियादीक्षाभिप्रायेण तन्निषेधो विवक्षितोऽन्यथा ह्यत्रात्मसंस्कारशब्दार्थ एव कथं सङ्गच्छतामित्यलं बहुना॥४३॥

Nanvevaṁvidhamajñānaṁ tāvadanādyevāvasthitamiti nāsti vivāda etadabhāvātmakaṁ jñānaṁ punaḥ kadā samudiyādetadabhāve ca kiṁ nimittamityāśaṅkyāha


Tatra dīkṣādinā pauṁsnamajñānaṁ dhvaṁsi yadyapi|
Tathāpi taccharīrānte tajjñānaṁ vyajyate sphuṭam||43||


Yadyapyuktasvarūpam pauṁsnamajñānam

Dīyate jñānasadbhāvaḥ kṣīyante paśuvāsanāḥ|
Dānakṣapaṇasaṁyuktā dīkṣā teneha kīrtitā||

ityādyuktasvarūpayā dīkṣayā naśyatyeva tathāpi tad ajñānābhāvamātrarūpamātmajñānaṁ vyaktyunmukhamapi

... prārabdhrekaṁ na śodhayet|

ityādyukteridaṁśarīrārambhakasya kārmamalasya sadbhāvāttasya vartamānaśarīrasyānte sphuṭaṁ vyajyate

... dehapāte śivaṁ vrajet|

ityādyuktyā sākṣātkārātma sphuratītyarthaḥ| Ādiśabdācca śeṣavṛttyā grahaṇaṁ na tu tīvrataraśaktipātādestaddhi dīkṣāyāṁ nimittamiti tadvacanenaivāsya grahaḥ siddho na cāsmindīkṣāto'nyatkiñcinmuktau nimittam| Taduktam

Tasmātpravitatādbandhātparasthānavirodhakāt|
Dīkṣaiva mocayatyūrdhvaṁ śaivaṁ dhāma nayatyapi||

iti| Tīvratamaśaktipātādau punaranupāyādikrameṇa dīkṣā bhavedyenāsya tatkālamevāpavargaḥ| Taduktam

Tatsambandhāttataḥ kaścittatkṣaṇādapavṛjyate|

iti| Dīkṣānirapekṣameva punaretanmuktau nimittamiti na sambhāvyamevaṁ śrutivirodhaḥ syāt|

Tasya dīkṣāṁ vinaivātmasaṁskārapariṇāmataḥ|
Samyagjñānaṁ bhavetsarvaśāstreṣu pariniṣṭhitam||

ityādau punarbāhyakriyādīkṣābhiprāyeṇa tanniṣedho vivakṣito'nyathā hyatrātmasaṁskāraśabdārtha eva kathaṁ saṅgacchatāmityalaṁ bahunā||43||

al inicio


 Estrofa 44

ननु यद्येवं दीक्षया देहान्त एव मुक्तिर्भवेत्तत्कथं जीवन्नेव विमुक्तोऽसावित्याद्युक्तमित्याशङ्क्याह


बौद्धज्ञानेन तु यदा बौद्धमज्ञानजृम्भितम्।
विलीयते तदा जीवन्मुक्तिः करतले स्थिता॥४४॥


बौद्धज्ञानेनेति परमेश्वराद्वयशास्त्रश्रवणाद्युद्भूतेन। तदुक्तम्

गुरुणैव यदा काले सम्प्रदायो निरूपितः।
तदाप्रभृति मुक्तोऽसौ यन्त्रं तिष्ठति केवलम्॥

इति। एतच्च दीक्षिताधिकारेणैव ज्ञेयं नह्यकृतदीक्षस्य शास्त्रश्रवणेऽप्यधिकार इति कुतस्तदवबोधनिमित्तकोऽपि तज्ज्ञानाविर्भावः स्यात्। तदुक्तम्

अदीक्षितानां पुरतो नोच्चरेच्छिवपद्धतिम्।

इति। न चाप्रध्वस्तपौरुषाज्ञानस्यानेन किञ्चिद्भवतीत्युक्तप्रायमन्यथा हि प्रेक्षावतां दीक्षायां प्रवृत्तिरेव न स्यात् — साध्यस्यार्थस्यात एव स्रुष्टुरभावादत एव दीक्षायां शिथिलास्थत्वं न वाच्यं तस्या एव मुक्तिं प्रति मूलकारणत्वात्। एवं दीक्षादिना पौंस्नं ज्ञानमभिव्यक्त्युन्मुखमपि न तदैव मुक्तिप्रदं — देहान्ते तदभिव्यक्तेरुक्तत्वादिदं पुनस्तदैवेति ततोऽस्य प्राधान्यमपि कटाक्षितम्॥४४॥

Nanu yadyevaṁ dīkṣayā dehānta eva muktirbhavettatkathaṁ jīvanneva vimukto'sāvityādyuktamityāśaṅkyāha


Bauddhajñānena tu yadā bauddhamajñānajṛmbhitam|
Vilīyate tadā jīvanmuktiḥ karatale sthitā||44||


Bauddhajñāneneti parameśvarādvayaśāstraśravaṇādyudbhūtena| Taduktam

Guruṇaiva yadā kāle sampradāyo nirūpitaḥ|
Tadāprabhṛti mukto'sau yantraṁ tiṣṭhati kevalam||

iti| Etacca dīkṣitādhikāreṇaiva jñeyaṁ nahyakṛtadīkṣasya śāstraśravaṇe'pyadhikāra iti kutastadavabodhanimittako'pi tajjñānāvirbhāvaḥ syāt| Taduktam

Adīkṣitānāṁ purato noccarecchivapaddhatim|

iti| Na cāpradhvastapauruṣājñānasyānena kiñcidbhavatītyuktaprāyamanyathā hi prekṣāvatāṁ dīkṣāyāṁ pravṛttireva na syāt — Sādhyasyārthasyāta eva sruṣṭurabhāvādata eva dīkṣāyāṁ śithilāsthatvaṁ na vācyaṁ tasyā eva muktiṁ prati mūlakāraṇatvāt| Evaṁ dīkṣādinā pauṁsnaṁ jñānamabhivyaktyunmukhamapi na tadaiva muktipradaṁ — Dehānte tadabhivyakteruktatvādidaṁ punastadaiveti tato'sya prādhānyamapi kaṭākṣitam||44||

al inicio


 Estrofa 45

न केवलमेतदेवास्य ततः प्राधान्यनिमित्तं यावदन्यदपीत्याह


दीक्षापि बौद्धविज्ञानपूर्वा सत्यं विमोचिका।
तेन तत्रापि बौद्धस्य ज्ञानस्यास्ति प्रधानता॥४५॥


इह

सर्वलक्षणहीनोऽपि ज्ञानवान्गुरुरुत्तमः।

इत्याद्युक्तेरधिगतशास्त्रार्थस्यैव हि गुरोर्दीक्षायामधिकारोऽत एव तस्य

शिवशास्त्रविधानज्ञं ज्ञानज्ञेयविशारदम्।

इति लक्षणं प्राधान्येनोक्तमन्यथा पुनः

शास्त्रहीने न सिद्धः स्याद्दीक्षायां वीरवन्दिते।

इत्याद्युक्त्या दीक्षा विमोचिकैव न स्यात्तेनेति दीक्षायां बौद्धस्य ज्ञानस्य कारणत्वान्नहि तेन विना तस्या निष्पत्तिरेव स्यात्॥४५॥

Na kevalametadevāsya tataḥ prādhānyanimittaṁ yāvadanyadapītyāha


Dīkṣāpi bauddhavijñānapūrvā satyaṁ vimocikā|
Tena tatrāpi bauddhasya jñānasyāsti pradhānatā||45||


Iha

Sarvalakṣaṇahīno'pi jñānavāngururuttamaḥ|

ityādyukteradhigataśāstrārthasyaiva hi gurordīkṣāyāmadhikāro'ta eva tasya

Śivaśāstravidhānajñaṁ jñānajñeyaviśāradam|

iti lakṣaṇaṁ prādhānyenoktamanyathā punaḥ

Śāstrahīne na siddhaḥ syāddīkṣāyāṁ vīravandite|

ityādyuktyā dīkṣā vimocikaiva na syātteneti dīkṣāyāṁ bauddhasya jñānasya kāraṇatvānnahi tena vinā tasyā niṣpattireva syāt||45||

al inicio


 Estrofa 46

न चैतदस्मदुपज्ञमेवेत्याह


ज्ञानाज्ञानगतं चैतद्द्वित्वं स्वायम्भुवे रुरौ।
मतङ्गादौ कृतं श्रीमत्खेटपालादिदैशिकैः॥४६॥


तदुक्तं श्रीस्वायम्भुवे

अथात्ममलमायाख्यकर्मबन्धविमुक्तये।
व्यक्तये च शिवत्वस्य शिवज्ञानं प्रवर्तते॥

इति।

अथानादिर्मलः पुंसां पशुत्वं परिकीर्तितम्।
तत्सद्भाववशोऽज्ञादिः पाशौघः पौरुषः स्मृतः॥
तस्मात्तत्तत्त्वतो ज्ञेयं मोक्षमक्षयमिच्छता।

इति च। श्रीरुरावपि

यजन्ति विविधैर्यज्ञैर्मन्त्रतत्त्वविशारदाः।
गुरुतन्त्राद्यनुज्ञातदीक्षासिच्छिन्नसंशयाः॥

इति।

न मीमांस्या विचार्या वा मन्त्राः स्वल्पधिया नरैः।
प्रमाणमागमं कृत्वा श्रद्धातव्या विचक्षणैः॥
सर्वे मन्त्रात्मका देवाः सर्वे मन्त्राः शिवात्मकाः।
शिवात्मकमिदं ज्ञात्वा शिवमेवानुचिन्तयेत्॥

इति च। श्रीमतङ्गेऽपि

ततः स भगवानीशः स्फुरन्माणिक्यशेखरः।
वाक्यानलसमुत्थेन ज्वालावीर्येण मन्त्रराट्॥
प्रददाह मुनेः सर्वमज्ञानं तृणराशिवत्।

इति।

शिववक्त्राम्बुजोद्भूतममलं सर्वतोमुखम्॥
शिवत्वोन्मीलनं तथ्यं ज्ञानमज्ञाननाशनम्।
अनेन सिद्धाः पश्यन्ति यत्तत्पदमनामयम्॥

इति च। आदिशब्देन चिल्लाचक्रेश्वरीमतादेर्ग्रहणम्। तदुक्तं तत्र

बौद्धं च पौरुषेयं च द्विविधं तन्मलं स्मृतम्।
तत्र दीक्षादिना याति पौरुषेयं मलं क्षयम्।
बौद्धमक्षयमेवास्ते तावत्तावत्समुद्रितम्।
यावन्न बौद्धमेवास्य सजातीयविलापकम्॥
ज्ञानमभ्युदितं सम्यक्सारेतरविभागकृत्।

इति। पौंस्नज्ञानाभिव्यञ्जने दीक्षा तावन्न प्रभवेद्यावदस्य बौद्धं ज्ञानं पूर्वभावि न स्याद्येनास्य ततोऽपि प्राधान्यमुक्तम्॥४६॥

Na caitadasmadupajñamevetyāha


Jñānājñānagataṁ caitaddvitvaṁ svāyambhuve rurau|
Mataṅgādau kṛtaṁ śrīmatkheṭapālādidaiśikaiḥ||46||


Taduktaṁ śrīsvāyambhuve

Athātmamalamāyākhyakarmabandhavimuktaye|
Vyaktaye ca śivatvasya śivajñānaṁ pravartate||

iti|

Athānādirmalaḥ puṁsāṁ paśutvaṁ parikīrtitam|
Tatsadbhāvavaśo'jñādiḥ pāśaughaḥ pauruṣaḥ smṛtaḥ||
Tasmāttattattvato jñeyaṁ mokṣamakṣayamicchatā|

iti ca| Śrīrurāvapi

Yajanti vividhairyajñairmantratattvaviśāradāḥ|
Gurutantrādyanujñātadīkṣāsicchinnasaṁśayāḥ||

iti|

Na mīmāṁsyā vicāryā vā mantrāḥ svalpadhiyā naraiḥ|
Pramāṇamāgamaṁ kṛtvā śraddhātavyā vicakṣaṇaiḥ||
Sarve mantrātmakā devāḥ sarve mantrāḥ śivātmakāḥ|
Śivātmakamidaṁ jñātvā śivamevānucintayet||

iti ca| Śrīmataṅge'pi

Tataḥ sa bhagavānīśaḥ sphuranmāṇikyaśekharaḥ|
Vākyānalasamutthena jvālāvīryeṇa mantrarāṭ||
Pradadāha muneḥ sarvamajñānaṁ tṛṇarāśivat|

iti|

Śivavaktrāmbujodbhūtamamalaṁ sarvatomukham||
Śivatvonmīlanaṁ tathyaṁ jñānamajñānanāśanam|
Anena siddhāḥ paśyanti yattatpadamanāmayam||

iti ca| Ādiśabdena cillācakreśvarīmatādergrahaṇam| Taduktaṁ tatra

Bauddhaṁ ca pauruṣeyaṁ ca dvividhaṁ tanmalaṁ smṛtam|
Tatra dīkṣādinā yāti pauruṣeyaṁ malaṁ kṣayam|
Bauddhamakṣayamevāste tāvattāvatsamudritam|
Yāvanna bauddhamevāsya sajātīyavilāpakam||
Jñānamabhyuditaṁ samyaksāretaravibhāgakṛt|

iti| Pauṁsnajñānābhivyañjane dīkṣā tāvanna prabhavedyāvadasya bauddhaṁ jñānaṁ pūrvabhāvi na syādyenāsya tato'pi prādhānyamuktam||46||

al inicio


 Estrofa 47

एवं बौद्धमपि ज्ञानं पारमेश्वरं शास्त्रमन्तरेण कुतः समुदियादिति तदेव मूलकारणत्वादिह प्रधानमित्याह


तथाविधावसायात्मबौद्धविज्ञानसम्पदे।
शास्त्रमेव प्रधान यज्ञेयतत्त्वप्रदर्शकम्॥४७॥


सम्पद इति तां जनयितुमित्यर्थः। यतो ज्ञेयस्य नीलसुखादेस्तत्त्वं प्रकाशमानत्वान्यथानुपपत्त्या प्रकाशात्मकशिवस्वभावत्वं तस्य प्रदर्शकं पराद्वयोपदेशकारित्वात्तदभिधायकमित्यर्थः। अत एव चास्य तदप्रदर्शकतया शास्त्रान्तरेभ्यो वैलक्षण्यमपि कटाक्षितम्॥४७॥

Evaṁ bauddhamapi jñānaṁ pārameśvaraṁ śāstramantareṇa kutaḥ samudiyāditi tadeva mūlakāraṇatvādiha pradhānamityāha


Tathāvidhāvasāyātmabauddhavijñānasampade|
Śāstrameva pradhāna yajñeyatattvapradarśakam||47||


Sampada iti tāṁ janayitumityarthaḥ| Yato jñeyasya nīlasukhādestattvaṁ prakāśamānatvānyathānupapattyā prakāśātmakaśivasvabhāvatvaṁ tasya pradarśakaṁ parādvayopadeśakāritvāttadabhidhāyakamityarthaḥ| Ata eva cāsya tadapradarśakatayā śāstrāntarebhyo vailakṣaṇyamapi kaṭākṣitam||47||

al inicio


 Estrofa 48

ननु भवत्वेवमत्र पुनः किं निमित्तं यत्पौंस्नाज्ञाननिवृत्यौ देहान्ते मुक्तिर्बौद्धाज्ञाननिवृत्तौ तु तदैवेत्याशङ्क्याह


दीक्षया गलितेऽप्यन्तरज्ञाने पौरुषात्मनि।
धीगतस्यानिवृत्तत्वाद्विकल्पोऽपि हि सम्भवेत॥४८॥


धीगतस्येत्यज्ञानस्य। विकल्पो हि भेदप्रथात्मकः स चैवाख्यातिरूपत्वादज्ञानमिति बहूक्तम्॥४८॥

Nanu bhavatvevamatra punaḥ kiṁ nimittaṁ yatpauṁsnājñānanivṛtyau dehānte muktirbauddhājñānanivṛttau tu tadaivetyāśaṅkyāha


Dīkṣayā galite'pyantarajñāne pauruṣātmani|
Dhīgatasyānivṛttatvādvikalpo'pi hi sambhaveta||48||


Dhīgatasyetyajñānasya| Vikalpo hi bhedaprathātmakaḥ sa caivākhyātirūpatvādajñānamiti bahūktam||48||

al inicio


 Estrofa 49

ननु धीगतमज्ञानं यदि न निवृत्तं तदात्मनः किमायातमित्याशङ्क्याह


देहसद्भावपर्यन्तमात्मभावो यतो धियि।
देहान्तेऽपि न मोक्षः स्यात्पौरुषाज्ञानहानितः॥४९॥


दीक्षितस्यापि हि नियतकालं बुद्धावात्मग्रहो भवेदिति तयोरभेदाद्बौद्धमप्यज्ञानमात्मन्युपचितं सम्भवेदिति भावः। अत एव देहान्ते बुद्धावात्मग्रहव्युपरमात्पौरुषस्याज्ञानस्य दीक्षादिना पूर्वमेव प्रध्वस्तत्वान्मोक्ष इति युक्तमुक्तं तच्छरीरान्ते तज्ज्ञानं व्यज्यते स्फुटमिति॥४९॥

Nanu dhīgatamajñānaṁ yadi na nivṛttaṁ tadātmanaḥ kimāyātamityāśaṅkyāha


Dehasadbhāvaparyantamātmabhāvo yato dhiyi|
Dehānte'pi na mokṣaḥ syātpauruṣājñānahānitaḥ||49||


Dīkṣitasyāpi hi niyatakālaṁ buddhāvātmagraho bhavediti tayorabhedādbauddhamapyajñānamātmanyupacitaṁ sambhavediti bhāvaḥ| Ata eva dehānte buddhāvātmagrahavyuparamātpauruṣasyājñānasya dīkṣādinā pūrvameva pradhvastatvānmokṣa iti yuktamuktaṁ taccharīrānte tajjñānaṁ vyajyate sphuṭamiti||49||

al inicio


 Estrofa 50

एवं विकल्पोऽत्र सम्भवन्मुक्तौ व्यवधायक इति न तदैव मुक्तिस्तस्य पुनरसम्भवे सत्यपि देहे मुक्तिरित्याह


बौद्धाज्ञाननिवृत्तौ तु विकल्पोन्मूलनाद्ध्रुवम्।
तदैव मोक्ष इत्युक्तं धात्रा श्रीमन्निशाटने॥५०॥


न चैतदप्रमाणकमित्याह इत्युक्तमित्यादि॥५०॥

Evaṁ vikalpo'tra sambhavanmuktau vyavadhāyaka iti na tadaiva muktistasya punarasambhave satyapi dehe muktirityāha


Bauddhājñānanivṛttau tu vikalponmūlanāddhruvam|
Tadaiva mokṣa ityuktaṁ dhātrā śrīmanniśāṭane||50||


Na caitadapramāṇakamityāha ityuktamityādi||50||

al inicio


 Información adicional

Gabriel Pradīpaka

Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.

Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.



Regresa a I. 1-25 Top  Sigue leyendo I. 51-75