Descarga e instala la(s) fuente(s) indispensable(s) para ver Sánscrito en toda su gloria Lee Transliterando (2) (castellano) para comprender plenamente el sistema de transliteración |
Svātantryasūtravṛtti (Svatantryasutravritti) Devanāgarī - Shaivismo no dual de Rosario
Comentario de Gabriel Pradīpaka sobre su propio Svātantryasūtram - versión "Devanāgarī únicamente"
|
|
Introducción
Hola, Gabriel Pradīpaka nuevamente. Para echar firmes cimientos en mi tarea de reconectar a los aspirantes espirituales con su propio Ser y de hacer que la literatura en Sánscrito sea actual y totalmente viva, compuse el Svātantryasūtram. Se publicó primeramente junto con una sucinta exposición en castellano de cada aforismo. Ahora, sobre esos sólidos cimientos, procedo a escribir un comentario (vṛtti) completo en Sánscrito, la lengua sagrada, sobre esa escritura. De esta manera, también me aseguraré de que los sutiles significados contenidos en cada uno de los aforismos no sean tergiversados por los siempre presentes puntos de vista diferentes y opiniones distintas que surgen en individuos limitados que son sólo una invención del Poder del Ser. Ofrezco esta obra al Ser puro que es el substrato de todo lo que existe y la verdadera clave del éxito en la espiritualidad.
Obviamente, estoy siempre siguiendo principalmente las enseñanzas del Trika (Shaivismo no dual de Cachemira) porque es mi especialidad, pero agregué mis propias experiencias personales también, todo lo cual constituye lo que ahora llamo: Trika de Rosario o Shaivismo no dual de Rosario.
Lee la Svātantryasūtravṛtti y date cuenta de tu identidad con tu propio Ser.
Ésta es una versión "Devanāgarī únicamente", es decir, todo el texto aparece como lo compuso originalmente el autor en Sánscrito. No hay ni traducción ni transliteración.
Escritura original
स्वातन्त्र्यसूत्रवृत्तिः
प्रथमोऽध्यायः
परमार्थप्रदीपकः
आत्मा शुद्धप्रकाशात्मकघनमय एवास्ति चिच्छक्तिमात्रः
शक्तिश्चास्यात्मनः संविदमृतरसपूर्णा हि सानन्दशक्तिः।
विश्वं शुद्धप्रकाशात्क्षणिकमिह वितष्टं तु एतस्य शक्त्या
स्वाच्छन्द्याह्लादरूपौ मम हृदि अभिवन्देऽधुनैवात्मशक्ती॥
यावन्न पुरुषः स्वबन्धं चिनुते तावत्स परमार्थदृष्ट्या जीवन्मुक्तो वान्यो बद्धमात्रो पशुर्वा नूनम्। प्रायेण सर्वे स्वबन्धं न चेतुं शक्न्वन्ति तद्यथा तेषां स्वचित्तदेहपरिमिततामिषतां न द्रष्टुं बोद्धुं वा शक्न्वन्ति प्रतिपदम्। अमी जनाश्चेदमीषां बन्धस्य मात्रां बोद्धुं शक्नुयुस्तदा ते नैतावत्प्रमत्तचित्ता असावधानाः स्युरेव। दुर्दैवाद्यस्माद्बहवस्तत्सत्यं न बोधन्ति तस्मादसङ्ख्यचिन्तावृत्तान्तादिमयलौकिकत्वेन भासमानः संसारो बन्धः पुनः पुनः प्रवर्तते। केऽपि किन्तु स्वबन्धदशां बोधन्ति। येऽज्ञानबन्धैर्मुक्त्यन्विच्छन्तस्ते साधकसञ्ज्ञा न संशयः।
अनेकगुरूपदिष्टैर्नानावादैर्मोहिताः केचित्साधका जगत्यस्मिञ्छोकामिषतां यान्ति। अस्यात्मनोऽहैतुक्या करुणया स्वातन्त्र्यसूत्रं मया विरचितं निःशोकेन स्वतन्त्रताप्रमोदशालिना स्वात्मना तेषां साधकानामेव पुनः सम्बन्धार्थम्। इदानीमेवास्याहैतुक्यापि दयया स्वातन्त्र्यसूत्रस्य रहस्यार्थान् प्रतिपादयितुं विरचयामि वृत्तिमिमाम्। प्रथमसूत्रेण परमार्थः सङ्क्षेपत उक्तः—
यावचिन्त्यावात्मास्य शक्तिश्चैतौ परमार्थो भवतः॥१॥
आत्मा चात्मनः शक्तिश्च यावचिन्त्यौ चित्तातीतौ चिन्ताया अविषयावेतौ स्तः परमार्थोऽनुत्तरम्। सर्वाणि प्रमेयान्यपि भूत्वैताविमौ नित्यमप्रमेयौ स्थितौ स्वबुद्ध्या चानिश्चितौ। इत्थमेतयोः स्वभावोऽशक्यो वचनप्रतिकृतिमूर्त्यादिव्याकारेण वर्णयितुं यतः सर्वोऽयं प्रपञ्च एतयोरुदितः। यथा घटो घटकारस्वभावमुपलब्धुमशक्तस्तथैव चित्तमिदं तत्स्रष्टृस्वरूपस्योपलाभेऽशक्तं।
अत्र च सूत्रेऽस्मिन् आत्मा प्रकाशमात्र इव शुद्धबोधः क्रियाशून्यो निर्दिष्टो ब्रह्मेवाद्वैतवेदान्तदर्शने। प्रकाशो न मनागपि स्फुटं दृश्यज्योतिर्मात्रोऽप्रमेयत्वात्। यत्सत्ताधारमेतद्वक्तुं श्रेयस्या अभिधाया अभावात्प्रकाशशब्दः प्रयुक्तः। प्रकाशमात्रो निष्क्रिय इति हेतोः कर्मशालि विश्वं स्रष्टुं न शक्नोति।
आत्मनः शक्तिर्भवत्यहंविमर्शो य एतस्मै क्रियां दाता। एषोऽहंविमर्शो विमर्शपदमात्रेणापि कीर्तितः। यदि परमार्थः प्रकाशमात्रः स्यात्तदैवाहंविमर्शाभावत्वान्न विश्वं जायेत। यतो विश्वं नीलदेहादिसर्वभोग्यात्मकं तत आत्मना तस्य भोक्त्रा भवितव्यम्। स्वशक्त्यैवाहन्तां यात्वा प्रकाशविमर्शमयो भूत्वा चैष आत्मा विश्वं भोक्तुं शक्नोत्यन्ते। अत एव न परमार्थः कदाचित्प्रकाशमात्रोऽस्त्यपि तु प्रकाशविमर्शमयः परमार्थतः। तदुक्तं श्रीमत्पराप्रावेशिकायाम्
इह खलु परमेश्वरः प्रकाशात्मा प्रकाशश्च विमर्शस्वभावः विमर्शो नाम विश्वाकारेण विश्वप्रकाशेन विश्वसंहरणेन चाकृत्रिमाहमिति विस्फुरणम्। यदि निर्विमर्शः स्यादनीश्वरो जडश्च प्रसज्येत।
इति श्रीक्षेमराजनीत्यात्मनः शक्तिर्विश्वस्य सृष्टिस्थितिसंहारेषु तयैव कृतेष्वहंविमर्शवद्भवन्त्यास्ते। शिवस्त्रिकशासने सूचितः परमात्मा यः परप्रमाता स तु न हि प्रसिद्धः पौराणिकशिवो ब्रह्मविष्णुशिवत्रितयस्य देवो महायोगी यो व्याघ्रचर्मण्यासीनः कैलासगिरौ च वसन्। ये निजाशुद्ध्यसमर्था अविद्वांसोऽपण्डिता ज्ञानविज्ञानरहितास्ते कल्पिताचार्या अवश्यं निरवधिमोहरूपाज्ञानकारकाः । तस्य हेतोः स्वातन्त्र्यसूत्रेऽगाधाज्ञानकृतस्यानन्तसम्भ्रमस्य विनाशार्थ आत्माशब्दः शिवे मया प्रयुज्यते।
एवं च प्रकाशाहन्तारूपेण सर्वस्य भित्तिर्भूत्वात्मशक्ती भवतः परमार्थोऽवश्यम्॥१॥
तयोरुभयोः स्वरूपं स्वातन्त्र्यानन्दात्मकैकघनत्वेनापि तत्सन्तताध्ययनाय वचोविषय एव द्विधाकृतम्॥२॥
तयोरुभयोरात्मशक्त्योः स्वरूपं स्वभावः स्वाच्छन्द्यप्रमोदमयैकघनत्वेनापि तद्द्विधाकृतं वचोविषये वचनापेक्षयैव तत्स्वरूपसन्ततोपोद्घातार्थम्। प्रकाशश्च विमर्शश्च नित्यसम्बन्धेनैकवस्तुनावतिष्ठेते। एतयोर्व्यतिरेकः केवलं वचोविषये बुद्ध्या तत्बोधाय यावद्वा यावद्वा। एवं नास्त्यात्मशक्तिरात्मन एव व्यतिरिक्ता कदाचन। किञ्चात्मा स्वशक्त्या सह नहि ज्योतिर्नादमनोदेहादिसगुणप्रमेया अपि तु तस्याक्षयनिर्विकारसाक्षी। तद्विशदीकृतं श्रीस्पन्दनिर्णये
यस्तु तत्तत्त्वमितीह तच्छब्देनास्य निर्देशः कृतः स
स्वातन्त्र्यामुक्तमात्मानं...।
इति श्रीप्रत्यभिज्ञाकारिकोक्तनीत्या कल्पितस्यैवापारमार्थिकस्वरूपस्य न तु तत्त्वतः पारमार्थिकस्य।
इति श्रीक्षेमराजोपदेशतो न त्वेवं स्मर्यमाणत्वं तत्तत्त्वं प्रतिपद्यत इतीह स्पन्दे (१-१३) स्पन्दतत्त्वमात्मशक्तिरूपं निर्दिष्टं तच्छब्देनायं तु शब्दो नास्ति परमार्थस्तत्त्वतो यतः परमार्थो सर्वदोच्चाररहितं वस्तु। येषां ध्यानपूजासेवादिकुर्वतां जनानां कृत आत्मैव वचोविषये स्वागाधशक्त्या चोच्चार्यस्तदीश्वरब्रह्मादिकशब्दैर्वर्णनीयो भवति। इत्थमेष आत्मा द्विरूपत्वेन यो वर्णनीयः कल्पितज्ञाता च योऽवर्णनीयो वस्तुतः सज्ज्ञाता च। आत्मा च न स्वस्वतन्त्रतया हीनः कदाचन यतः शब्दविषये तदीश्वरब्रह्मादिकल्पितप्रमाता भूत्वापि स स्वतन्त्रः सततं स्थितः।
अहमात्मास्मीति नाहमात्मास्मीति वेमौ सङ्कल्पौ वचनप्रदेश एवात्मशब्दस्य कल्पितत्वात्। निःसन्देहमहंशब्दो वक्ष्यमानोऽपि कल्पितः। अनया रीत्योक्तोपदेशेन सर्वा विरोधोक्तिर्द्वैताद्वैतयोर्नष्टा सुनिश्चितम्।
यदि परमार्थो तदीश्वरब्रह्मादिशब्दात्मककल्पितज्ञातारं न कल्पेत तदा स न केनऽपि व्यवहर्तुं शक्येत कदाचित्। यद्येवं च नास्तिक्यमपि न स्यात्तदीश्वरब्रह्मादिसञ्ज्ञाभावत्वात्। अत्र त्वं पुनरुपलभस आत्मनः स्वातन्त्र्यं यस्मान्नानाशब्दसञ्ज्ञिततां लब्ध्वा स सर्वशब्दातीतस्वस्वरूपे नित्यं सर्वत्रावस्थितः। एष विभव्यात्मा सर्वदा स्तुतो भवतु॥२॥
आत्मा प्रकाशात्मकशुद्धबोधोऽपि सोऽहमिति वचोविषये स्मृतः॥३॥
यः प्रकाशात्मकशुद्धबोधः सारत एवानन्द्यात्मा वचनविषये स्वशक्त्याहंविमर्शेनाहंस्थितित्वं लभते। यदैष आत्मा परमार्थहृदयः परमप्रमाता विश्वोत्तीर्णस्थितो न जातु विकल्पेऽप्युल्लेखितुं शक्यस्तदा कुतः सोऽहंरूपं भवितुं शक्नुयात्। अस्य शक्त्या किन्त्वात्मैवाहंभावेन परिणमति सङ्कुचिताहन्तामयाहङ्कारमात्र आत्मन उत्कर्षं निर्देशायेति यावत्॥३॥
मयात्मशक्तिविवरणमिदानीमारब्धम्—
या प्रथमस्पन्दात्मिकास्य शक्तिः साहंविमर्श एव॥४॥
आत्माविक्रियस्वरूपे शुद्धबोधाब्धौ सहसोदिता सूक्ष्मस्फुरितरूपेण मनागूर्मिः। सेयमूर्मिरात्मशक्तिरहंविमर्शवदुद्गच्छती। स्वशक्त्या चात्मा स्वसत्तां प्रत्यक्षमनुभवति। अत एवात्मा स्वशक्तिसहितोऽहंरूपः खलु निर्दिष्टः। स्वशक्तिं विनात्मा स्वसत्तां ज्ञातुं न शक्नुयात्तदविद्वांश्च स स्यात्प्रकाशमात्रो निर्बल एव।
सत्यं कॢप्तौ सत्यासत्यावसत्यं चेति सत्यत्रयम्। सत्यमिति परमसत्यं तद्यथैष आत्मा स्वशक्त्युपेतः सङ्क्षेपतः परमार्थः स्वातन्त्र्यानन्दैकघनरूपकः प्रकाशविमर्शमयोऽसंशयम्। कॢप्तौ सत्यासत्यावित्यात्मशक्तेरसङ्ख्येयप्रपञ्चा अनित्यतासुखदुःखलक्षणाः — तव देहः स्थूलोऽस्तीति तव देहः कृशोऽस्ति वा दृष्टान्तरूपेण। पूर्वोक्तदृष्टान्तापेक्षया यदि वा यत्सत्यमसत्यं वा तत्सर्वं कॢप्तसत्यं कॢप्तासत्यं वा तस्यानित्यतासुखदुःखसम्बन्धत्वात्। अन्ततोऽसत्यमित्यभावरूपेण सम्पूर्णासत्यं वक्ष्यमानं यत्केवलं वचनमात्रमिव वर्तते न तु वस्तुतः।
यदा यदात्मा केनाप्युक्तः कथितस्तदा तदा तत्सर्वं न सत्यं तत्त्वतः परमार्थतोऽपि त्वात्मशक्तेः प्रपञ्चो वचनक्षेत्रे सर्वदा। अत एव सत्यं परमार्थरूपं न शकितं वाच्य आरोढुं सर्वथा। एवं सारभूतसत्यं परमार्थात्मकं नानाशब्दाविषयकं स्वानुभवसम्बन्धि भवति नित्यं। यद्येवं कोऽर्थः कस्याप्यात्मज्ञानशालिशास्त्रेण — यतः सत्यस्य परमार्थस्य प्रत्यभिज्ञायै साधकस्य तत्स्वभावप्रपञ्चाद्युपलाभेन प्रयोजनम्। किञ्चाभ्यासस्य केनचित्प्रकारेणानुभवपुण्यराशीकरणं वक्ष्यमानं सादखेनावश्यं करणीयम्। तद्विना सत्यं न साधकस्य प्रकाशते कदाचन यस्माद्यद्यपीदृक्प्रकाशनं भवेत्तथापि तन्निरर्थकं स्यात्साधकस्यैवायोग्यत्वात्।
यद्धि यद्वाच्य आरूढं तत्तदात्मशक्त्या कॢप्तं कृतम्। अत्रार्थे सर्वमिदं स्वशक्तेर्विजृम्भितं देहाहङ्कारमनोविषयादिप्रमेयरूपकं केवलं कल्पितं न तु सत्यं परमार्थः प्रकाशविमर्शमयो नूनं खलु - दृष्टान्तरूपेण यदा यदा केनाप्यहमयं चित्तदेहादिविशेषोपेतो जनोऽस्मीत्युक्तं तदा तदा तत्सर्वमात्मशक्तिकल्पितमेव यतः स पारमार्थिकात्मानन्यरूपत्वेनोच्चारातीतस्तिष्ठति नित्यम्। नानाशब्दभिः स्वशक्तिः कॢप्तजनकुलपुरप्रदेशभुवनादीनि सृजत्यास्तेऽनवरतम्। तत्सर्वं सत्तावत्तात्त्विकं च न संशयः सम्यग्वास्तविकात्मशक्त्युत्थितत्वात्किन्तु तत्सर्वं सङ्कोचविषये सुखदुःखविकारादिसम्बन्धि कल्पितं खलु न च स्वाच्छन्द्यप्रमोदशालि स्वस्वरूपं परमसत्यमेव।
सङ्कोचरङ्गभूमौ स्तः कृल्प्तौ सत्यासत्यावनित्यतासुखदुःखलक्षनौ - अहमयं देहोऽस्मीति त्वमस्य प्रदेशस्यासीति वयं मनुष्यजातीयाः स्म इतीदं सुखावहमस्तीत्यदोऽसुखावहमस्तीति ते मम मित्राः सन्तीत्यस्ति तस्य विशेष इत्यादि केचिद्दृष्टान्ताः। अयमात्मशक्तिकृतः प्रमातृप्रमाणप्रमेयसमूहः सम्यक्तात्त्विकोऽपि सम्यक्कॢप्तं परन्तु। आत्मा परप्रमाता साक्षादनित्यतासुखदुःखाद्यसङ्युक्तो भवति तस्याकल्पितत्वात्। स्वशक्तेः सर्वमिदं च कल्पितं नाटकमिव विश्वरूपेण केवलं स्वतन्त्रात्मप्रत्यभिज्ञार्थं न चान्यथा। यो न स्वस्वच्छन्दात्मप्रत्यभिज्ञायामुद्यतः सः खलु बद्धोऽनेन च हेतुनेदृग्बाध्योऽन्यदेहमेतद्देहादन्यविकल्पमेतद्विकल्पादित्यादि संसरन्न विरमति।
असत्यं सम्पूर्णशून्यमभावरूपं वक्ष्यमानं शब्दविषयभिन्नं न मनागपि भवति कदाचित्। केन हेतुनेति यतस्तत्कल्पितसम्पूर्णशून्यं केनापि सदा प्रमीयते। को तस्य प्रमातेति पारमार्थ्यात्मकसत्यमेव। किं बहुनात्मनोऽभावोऽन्यत्कल्पितमात्मशक्त्या कृतमसन्देहम्। अन्यानि सौषुप्तादिरूपशून्यानि सर्वदैव सत्ताशालीनि तेषां स्मर्यमानत्वादभावस्तु न स्मर्यते कदाचनात्मनः स्मारकस्य नित्यसन्निधेः।
स्वसाङ्ख्यप्रवचनसूत्रे श्रीव्यासेन सत्यता तथा सूचिता
सत्यं यथार्थे वाङ्मनसे यथा दृष्टं यथानुमितं यथा श्रुतं तथा वाङ्मनश्चेति। परत्र स्वबोधसङ्क्रान्तये वागुक्ता सा यदि न वञ्चिता भ्रान्ता वा प्रतिपत्तिबन्ध्या वा भवेदिति एषा सर्वभूतोपकारार्थं प्रवृत्ता न भूतोपघाताय यदि चैवमप्यभिधीयमाना भूतोपघातपरैव स्यान्न सत्यं भवेत्पापमेव भवेत्। तेन पुण्याभासेन पुण्यप्रतिरूपकेण कष्टं तमः प्राप्नुयात्तस्मात्परीक्ष्य सर्वभूतहितं सत्यं ब्रूयात्।
इति। असौ तु सत्यता श्रीमद्व्यासेन निर्दिष्टानित्यतासुखदुःखमयविश्वरूपकल्पितानुषक्ता केवलं तद्यथा महाबुधस्य व्याख्या कॢप्तसत्यासत्यविषयगतैव। वास्तविकसत्यता नैवमपि तु सारभूतात्मात्मकस्वस्वरूपावस्थानम्। यद्यपि श्रीव्यासेनोपदिष्टेव सत्यता केनाप्यभ्यस्ता स तत्करोति स्वस्वतन्त्रानन्द्यात्मावस्थानयुक्त्या न चान्यथा। तदनुसारेणात्मावस्थानस्य सत्यविषयगतत्वात्तद्भवति सत्यता परमा सर्वकालं नूनम्॥४॥
तस्मादहंविमर्शरूपात्प्रथमस्पन्दात्परमस्य शक्तिस्त्रिविधा भवति॥५॥
प्रथममात्मशक्तिरहंविमर्श इव प्रादुर्भूता ततः परं सेच्छाज्ञानक्रियारूपेण त्रिविधा त्रिगुणा भवति विश्वसृष्टिस्थितिसंहारार्थम्। इच्छाशक्तिर्ज्ञानशक्तिः क्रियाशक्तिश्चेतीमास्तिस्रः शक्तयो नात्मशक्तिव्यतिरिक्ता अपि त्वेतस्या व्यापाराः। विश्वं सिसृक्ष्वामात्मशक्त्यामियं लालसैतस्या इच्छाशक्तिः। कथयन्त्यामात्मशक्त्यावहमेवं तत्करिष्यामीत्ययं निश्चय एतस्या ज्ञानशक्तिः। यद्विश्वं स्वेच्छापूर्वकं कुर्वत्यामात्मशक्त्यामियं कृतिरेतस्याः क्रियाशक्त्या कृता।
यात्मशक्तिरिदं विश्वं दर्शयति सैवापरिमितात्मानं नानामलमायाकञ्चुकयुक्त्याहङ्कारोपेतनरभावेन परिणमयति। सदा तच्चिन्तामेतच्चिन्तायास्तद्देहमेतद्देहादित्यादि संसरति ह्ययं नरोऽणुर्वा संसारी यत्सत्यम्। तस्मादात्मा सत्यरूपोऽणुना सङ्कोचविषयेऽवभसमानः स्वशक्त्यैव। सोऽणुः सुदृढपिधानवति घटे वायुरिव भवति। तद्घटे गतो वायुर्यद्यपि सर्ववायोः समोऽसंशयस्तथापि सोऽसमर्थोऽयोग्यश्च यतो घटेन बद्धः परिमितः सर्वकालम्। यदायं नरोऽणुर्वा त्रिकदर्शने साधकतामेति तदा यत्स्वस्वभाव आत्मरूपकः स गुरुणोपदिश्यते। किन्त्वस्य नूतनशिष्यस्यासामर्थ्यादयोग्यत्वाच्च स तं महोपदेशं न यथार्थं बोधति। तस्मादबोधान्निरर्थकप्रश्नदीर्घावलिरेव फलं भवेत्। इदानीमिमे प्रश्ना मया दृष्टान्तिता आत्माहं चेत्किमिति पीडामनुभवामीत्यात्माहं चेत्किमर्थं भीतोऽस्मीत्यात्माहं चेत्केन हेतुनोत्पतितुं न शक्नोमीत्यात्माहं चेत्किन्निमित्तं न बहुधनोऽस्मीत्यात्माहं चेत्किमिति संस्कृतशास्त्राण्याङ्ग्लभाषया विपरिणमयितुं न शक्नोमीत्यात्माहं चेत्किमर्थं कण्ठपाकमनुभवामीत्यात्माहं चेत्केन हेतुना मत्शक्त्या बध्यमानमपि मामुपैक्ष इत्यात्माहं चेत्किन्निमित्तं मम गुरुणा प्रयोजनं भवतीत्यादि।
तस्या नूतनशिष्यप्रश्नदीर्घावलेरुत्तरं दत्तमेतत्कः पृच्छतीति। तान् सर्वान् प्रश्नान् आत्मा परसत्यरूपो न पृच्छन् यतः स न भयं पीडामनिश्चयं वानुभवति कदाचन। इत्थं तस्य सर्वस्य पृच्छकः सोऽणुरात्मशक्त्या बद्धो योऽहङ्कारोपेतश्च। अयमणुः सुदृढपिधानवति घटे वायुरिव पूर्वोक्तः सर्वदोत्क्रोशति यस्माद्वायुरहं झञ्झावात इव वायां किन्त्वमुया रीत्या वातुं न शक्नोमि नूनमिति। अनेकानि दृढनिषेधवाक्यानि यद्यपि तेन नूतनशिष्येनोदितानि तथापि स न किञ्चित्प्राप्नोति तस्यासमर्थत्वात्। वास्तवकरणं केवलं सर्वसामर्थ्यशालिन्यात्मनः शक्त्या कृतं नहि चाणुनास्याः शक्तेः कल्पितेनैव कदाचित्।
यदायं नूतनशिष्योऽनुभवज्ञानवृद्धतरो भूतस्तदा स बोधति यद्वाङ्मात्ररूपेण विद्याभिमानेनैव बन्धेन मुक्तिर्न प्राप्ता जात्वसंशयः। शेषे सर्वभूतान्यात्मा सन्त्येव — किं तत इति। इत्थं साधकस्तस्मादक्षमबुद्धिकृतादबुधवितर्काद्विरमति यच्च तस्य मोक्षप्राप्त्यै तेन कर्तव्यं तत्क्षिप्रं कर्तुं प्रवर्तते। अत्र मोक्षप्राप्तिर्वास्तविकसिद्धिः परमार्थतः। अनुभवगुणराशीकरणं विना साधकः साधनाशक्तिहीनो भवति तस्य च सिद्धिः परमार्थदृष्ट्या नहि दूराधिरूढा। यथात्मा स्वेच्छयैव परिमिततां गतस्तथा स खलु स्वाच्छन्द्येनापि तेन सर्वेण बन्धेन मुक्तः। प्रागुक्ते दृष्टान्ते या घटपिधानमुत्कृष्य बन्धनादन्तर्वायुं मोचयती सैवानुग्रहरूपेणात्मेच्छा। सङ्कोचात्मकतद्पिधान आत्मस्पर्शेनोत्कृष्टेऽयं मोचितवायुरिवाधुनाणुः प्रथमं स्वस्वभावरूपकं प्रेमानुभवति। सङ्कोचे नष्टेऽणुः सम्यङ्मुक्तिं प्राप्य परमात्मा साक्षान् भवतीतः परं च महात्मा स्मृतः।
मुक्तिः पुनः शक्तिपाततीव्रतानुसारेणोत्पद्यते सदा। अतितीव्रः शक्तिपातश्चेत्साधको विदेहमुक्तः सहसा भवेन्न संशयो यदि च शक्तिपातो नातितीव्रस्तत विदेहमुक्तिस्थाने जीवन्मुक्तिर्विद्यते। स मुक्तो देहं त्यजतु न त्यजतु वा तत्सर्वं तस्य सममिव प्रतिभाति। किञ्च तस्य बुद्धिरन्ते परमार्थनिरूपणाय खलु क्षमा। नूतनशिष्यत्वे यस्मादात्माहं न किञ्चिन्मया कर्तव्यमिति तस्य प्राग्वितर्कः। किन्तु स्वाच्छन्द्यप्रमोदैकघनभूतस्य स्वात्मनः सम्यक्प्रत्यभिज्ञात्मकं मोक्षं लब्ध्वा यस्मादात्माहं न किञ्चिन्मया कर्तव्यं यत्तु परोपकारार्थे कार्यं तत्सर्वमवश्यं यथाशक्ति करिष्य इति तस्य मतमेवाधुना। स महात्मैवं चिन्तयन् यतः सोऽयमात्मा योग्येभ्यः साधकेभ्योऽनन्तानुग्रहं दातुमुद्यतः सर्वदा। स्वतन्त्रपुरुषः परमसत्येऽवतिष्ठन् स्वविभविशक्त्या सृष्टस्य विश्वस्य न विरुद्धः कर्हिचिदनेन च प्रकारेण स देहपातेऽप्यगतेन मङ्गलात्मशालिनित्यसमाधिना समाविष्टः सन्देहो नास्ति॥५॥
त्रिविधा भूत्वा सा विश्वमुत्पादयति॥६॥
इच्छाज्ञानक्रियाभिरात्मशक्तिः कृत्स्नं विश्वं स्रष्टुं शक्नोति क्रमशः। यदा षट्त्रिंशत्तत्त्वरूपेण विश्वसृष्टिं विवृण्वन्तः पराप्रावेशिकाषट्त्रिंशत्तत्त्वसन्दोहादिग्रन्थाः पूर्वं विरचितास्तदा कोऽर्थोऽन्येनापि विवरणेन विरच्यमानेन। मया परन्त्वेतदुक्तमधुना — विश्वसृष्ट्यां शुद्धाध्वाशुद्धाध्वा च स्तः। एकतः शुद्धाध्वनः शुद्धिः सम्यगैक्येन निर्दिष्टान्यतोऽशुद्धाध्वनोऽशुद्धिः सम्यगैक्याभावेन निर्दिष्टा। अणव आत्मशक्त्या कल्पिता अशुद्धाध्वनि वसन्ति। ये तु न परमार्थे सम्यक्प्रलीना विदेहा महात्मानस्ते शुद्धाध्वनि वसन्तः परोपकारार्थम्। अस्त्यष्टविद्येश्वरवर्गः साधकानां विशेषसाहाय्यं कुर्वन्तः। अनन्तेशः सूक्ष्मः शिवोत्तम एकनेत्र एकरुद्रस्त्रिमूर्तिः श्रीकण्ठः शिखण्डी चेति तेषां नामानि। शोणः श्वेतो नीलः पीतः कृष्णोऽरुणो रक्तः श्यावश्चेति तेषां शरीराणां वर्णा यथाक्रमम्। तेषां यो मम विशेषोपकारं करोति स एकरुद्रोऽसंशयः। तस्य महादेहः स्फुरद्घनकृष्णवर्ण आननं च चक्षुर्हीनमपि पश्यति साधकहृदि।
शुद्धाध्वा भुवनमयः सहस्रारेण सम्बध्यते तदर्थं च यदात्मशक्तिः सहस्रारचारिणी सा योग्यसाधकस्य दर्शयति विदेहानां महात्मनां निवासभूमीस्तेषु भुवनेषु नूनम्। समाधिं समाविश्य प्रथममाह्वानं मनसि विद्यते ततश्च परमात्मशक्तिर्गच्छति तस्य विदेहमहात्मनो निवासभूमिम् क्षिप्रम्। यदि च स विदेहमहात्मा परमार्थे सम्यक्प्रलीनस्तदात्मशक्तिः सहस्रारं सर्वं प्लावयति महाव्योमानं चोद्गच्छतीति रीतिः। यदा सहस्रारमगतात्मशक्तिः सा साधकं मोहयितुं शक्नुयाद्यदा तु सहस्रारगता न शक्नोति तस्याः सत्यरूपेणात्मना सम्बन्धत्वात्। मम सहस्रारभुवनेष्वन्वेषणानीदानीम् — अभिनवगुप्तो महाचार्यो वसति चतुरङ्गुलान्तदेशे ब्रह्मरन्ध्रात्पृष्ठतस्तस्य चातिसमीपं शिष्यमुखः क्षेमराजो नाम। शङ्कराचार्योऽद्वैतवेदान्तप्रवर्तकस्त्र्यङ्गुलान्तदेशे ब्रह्मरन्ध्रात्पृष्ठतः प्रतिवसति। ऋषी जमदग्निश्च कश्यापश्च पूर्वोक्तानां महात्मनामतिसमीपे देशे निवसतः। ऋषयो वसिष्ठो व्यासो विश्वामित्रः क्रतुः पुलस्त्यश्च ब्रह्मरन्ध्र एव तिष्ठन्ति। महात्मानो भट्टारका वसुगुप्तोऽत्रिर्भरद्वाजो नारदः पुलहः कुत्सो रेभोऽगस्त्यः कुशिको मरीचिरङ्गिराश्च परमार्थे सम्यक्प्रलीना एव।
ये महात्मानः सहस्रारे शुद्धाध्वनो भुवनेषु वसन्त इह लोके पुनर्जनितुं शक्न्वन्ति मनुष्यजात्युपकारार्थेऽसन्देहं न तु ये परमार्थतायां सम्यक्प्रलीना यतो ते शुद्धाध्वन्यशुद्धाध्वनि वा नैव वसन्ति। यस्मात्पारमार्थ्ये सम्प्रलीनाः सर्वत्र चिदिव प्रविशन्तस्तस्मात्ते सर्वभूतेषु स्वातन्त्र्यानन्दलक्षणस्वात्मेव तिष्ठन्ति।
आत्मनि प्रकाशिते साधको वास्तवसिद्धिमाप्त्वा मुक्तो भूतोऽयं च मोक्षो नह्यात्माहमिति वचनमात्रमपि तु स्वस्वरूपसमावेशः। देहपातात्परं स मुक्तः सहस्रारे कञ्चिद्भुवनं गच्छति परमार्थेऽथवा सम्प्रलीय नात्र लोके पुनर्जायते यत्सत्यम्॥६॥
विश्वमिदमस्य शक्त्या जन्यते न तु प्रत्यक्षमात्मनैव॥७॥
सात्मशक्तिर्विश्वमिदं जनयतु न जनयतु वा यः सदा निर्मलो मङ्गलश्च स आत्मा स्वस्वरूपे सततं तिष्ठति। आत्मा चात्मशक्तिश्चाणुश्चेत्येते त्रयो नित्यत्रितयमुपचाराच्च ते पिता माता पुत्रश्चेव पौर्वापर्येण मन्येरन्। अहमयं देहोऽस्म्यहमिदं मनोऽस्मि मम कुलमिदमस्ति मम मित्रा एते सन्ति ममारयस्ते भवन्तीत्याद्यज्ञानम्। तेनाज्ञानेनात्मशक्तिर्माता स्वपुत्रं परिपोषयति सर्वकालम्। भवत्यस्याणोर्देहमनोऽहङ्कारबुद्धिभयजीवितसुकृतादिरूपकं विश्वं सा माता। एवमख्यात्यन्नेनासङ्ख्येयानि जन्मानि स्वपुत्रमात्मशक्तिर्माता पुष्णत्यास्ते। किन्तु यस्यैकदेहादन्यदेहमेकविकल्पादन्यविकल्पं संसरन्नस्य सङ्कुचितपुत्रस्य यावदन्त्यजन्म श्रीमाता तद्पित्राणोः परिचयमुत्पादयितुं व्यवस्यति।
अणोः पिता सर्वदा परप्रमात्रात्मकस्वात्मेव तेन सार्धमाबहुजन्मभ्यो यतस्तु पितृपुत्रसङ्गमोऽनिष्टस्तया मात्रा तीव्रमातृभावादणुः स्वपित्रविद्वान् अविरतं समसरत्। धन्ययोरस्य धन्यपुत्रस्य यावदन्त्यजन्मात्मशक्तिर्माता स्वभर्तृप्रणयादस्याः पुत्रं नयति खलु तदाश्चर्यपितरम्। यदात्मशक्तिरनुरागवती माता सहस्रारस्यान्तर्विशति तदा तव पितैषोऽस्तीति सा स्वपुत्रमिदं वक्ति। यस्मादस्याणोः पिता स्वतन्त्राद्भुतात्मरूपस्तस्मात्पुत्रः स्वातन्त्र्यानन्दानुभवाक्रान्तोऽसंशयः। एवं चाहैतुकप्रेम्णा तत्पुत्रस्यात्मानं प्रकाशयन्नेको यः स्वच्छन्दः परमार्थत आत्मैव। सर्वेऽन्ये प्रेमभेदा आत्मप्रेम्णस्तद्प्रकाशनस्फुटीकृतादेवागताः। तस्मिन् काले पुत्रः स्वपित्रैक्यं सम्यगुपलभ्य तिष्ठेह सर्वदेति स ब्रुवाणो यतो न पुनस्तस्माद्विभ्रंशिषते। एतावन्ति जन्मान्यज्ञानमदं पीत्वा पुत्रस्त्विदानीमेव स्वपितेव प्रकाशितं स्वं स्वभावं प्रत्यभिजानीते। स्वमातापि सम्यक्परिणता यतः सा मामकात्मकेनाज्ञानेन तं न परिपोषयती प्रवर्तते सङ्कोचविनिमयेन च तस्य परमानन्दो भूत्वा। स्वपितृस्वाच्छन्द्ये स्वमातृसुधातुल्यप्रमोदे च संलीयायमणुर्बन्धनमुक्त्यां कल्पते सर्वे चार्थास्तेन प्रमेयजनविकल्पाद्यपेक्षितास्तदद्भुतपितरौभावेनाधुना प्रादुर्भूताः केवलम्। यस्यात्मनि सम्यक्प्रलीनस्येदं सौवर्णाहो न संशयः।
स प्रागुपचारस्त्रयाणामेषां नित्यक्रीडां स्फुटं दर्शयति। एकत आत्मा सदा प्रशान्तो मङ्गलः स्वतन्त्रश्चान्यत आत्मशक्तिर्न केवलं सततं स्वभर्तुर्यावच्छक्यं सेवनपरा या यावत्सा स्वपुत्रस्याशेषविश्वात्मकक्रीडास्थानस्य रक्षणनिष्ठा। अन्तेऽणुः स्वपितृवद्धन्यः स्वच्छन्दश्च किन्त्वधन्यं बद्धं तथैव सर्वकालमात्मानं सम्भावयन् यावत्स्वसौवर्णाहरागमनम्।
विभविन् आत्मन् एतत्त्रितयस्य प्रभव भगवान् स्थातुमिहार्हसि सर्वदा। तव सुन्दरग्रीवायां महामालायाः सर्वमिदं विश्वं नान्यत्किमपि नूनम्॥७॥
सा शक्तिरहंविमर्शभावेन तत्स्फारात्मकविश्वरूपेण वा तिष्ठति॥८॥
यदात्मशक्तिर्बिन्दुरूपेणाहंविमर्शमात्रा स्थिता तदा सा विशुद्धचमत्काररूपकैव यदि तु विश्वभावेन स्फारितायं महाचमत्कारोऽत्यन्तं तनूकृततामेति। तदनुसारेण तेनाणुनात्मशक्तिबद्धेनोऽल्पनन्दोच्छलत्परमानन्दक्षणद्युतयोऽनुभूताः स्फारितबिन्द्वात्मकविश्वप्रपञ्चात्। यस्तस्यामहंविमर्शावस्थितायां सम्यक्स्फारित एष आत्मैव विश्वरूपस्वशक्तिस्फारार्थं सङ्कुचिततां यातव्यः। उपचाराच्च यः श्रीगरुड इव सन् स आत्मा नित्यस्वतन्त्रसंशुद्धरूपश्चिदाकाशे डीनं परित्यज्याणुर्भूतः स्वशक्त्यामनन्तप्रेम्णैव। इत्थं स आत्मानं सङ्कुचति विश्वरूपेणैतस्याः स्फाराय कृत्यं चेदं तस्योत्क्रोश इव यः पक्षौ सङ्कोक्तुं प्रतिगृह्य कुक्कुटीवद्वसन् क्षित्याम्। यस्मादात्मनि एवं सङ्कुचिते तत्स्वस्वरूपतिरोधानमज्ञानमपूर्णत्वात्मकं परमार्थतः।
यावत्स आत्माणुवत्स्वेच्छया सङ्कुचितस्तावद्विश्वमिदं स्वशक्तिक्रीडं तद्भिन्नमिव प्रवर्तते। किन्तु पूर्वोक्ते सौवर्णाहरागमने यः कुक्कुटीवद्भूतः परमोत्क्रोशश्चिदाकाशे पुनरुत्पत्तुं इच्छति। आत्मनि प्रसारितपक्षे विश्वं कृत्स्नं तदभिन्नदृष्टं स्वशक्तिश्च बन्धकस्थाने मोक्षहेतुभूता निःसन्देहम्। परन्तु यथाद्भुतोत्क्रोश एतावज्जन्मसु कुक्कुटीभूमिकायां वर्तित्वा तथा प्रथमडीनाय तेनानेकोद्योगानि कार्याणि। तस्मिन्पुनर्लब्धनष्टाकाशे स्वशक्तिर्विरमती तद्भिन्नवद्विश्वविजृम्भितादवश्यमेव। एतत्परमं पदं स्वाच्छन्द्यानन्दशालि नात्र संशयः।
तेनोपचारेणापि निर्मलात्ममयं तत्प्रभवमणोः प्रत्यागमनं दर्शितम्। किञ्चोपचारेऽहमुत्क्रोशेनात्मानं तुलितवांस्तस्याहङ्काराभावत्वात्। आत्मा सदा निर्दोषो सुनिर्मलोऽनिष्टेन च खलु मुक्तः। यद्यप्यात्मशक्तिर्विश्वसिद्धिहेतुः श्रीप्रत्यभिज्ञाहृदयस्य प्रथमसूत्रे श्रीमत्क्षेमराजेन यथोपदिष्टं तथाप्यात्मैव सम्यक्पवित्रः स्वशक्तिकृताशेषकर्मातीतश्च स्थितः। यतस्तस्य समो न कोऽप्यत्रास्ति ततोऽयं मङ्गलात्मा नित्यं परमत्वेनावस्थितः। विभविन् आत्मन् विशुद्धप्रेम स्थातुमिहार्हसि सर्वदा।
समाप्तं यच्चतुर्थसूत्रारब्धं ममात्मशक्तिविवरणम्॥८॥
सर्वमिदं जगत्स्वपरिवर्तैः सहात्मशक्त्या विलासमात्ररूपमेव। आत्मा यः स्वाच्छन्द्यप्रमोदघनात्मक जगता न हि स्पृष्टो मनागपि जातुचित्। अणुजन्मनः पूर्वं च तस्य मृत्योः परं चात्मा चैतन्यभावेनास्ते। किञ्च स्वपरमशक्तिकॢप्तस्याणोर्जीवितरूपायां मध्यभूमिकायामप्यात्मा चैतन्यमिव तिष्ठति। सोऽद्वितीयः परमपदान्न स्तोकांशेनापि कदाचिच्चलति। सर्वशो निर्विकारश्च सदा निर्विघ्नेच्छानन्तानन्दशाली च स आत्मा सततं विविक्तं तिष्ठति यत्सर्वस्यानवच्छिन्नैकहृदयमिवास्ते। तदनुरूपेण य उपलब्धात्मदशो नरः सर्वदा सर्वत्रात्मवद्विविक्तः। तन्नरस्य देहो यदि जनौघवलयो यदि वा सम्यगन्यविश्लिष्टः स नित्यं विविक्तमास्ते। तस्य निवासः खलु कैलासः सहस्रार आनन्दालयः। यथा तद्बुधो देहचित्तयोरनात्मताभिमन्यमानस्तदर्थं च ताभ्यामात्मतां न युञ्जमानस्तथा स आत्मेव स्वतन्त्रश्च देहचित्तयोर्भाग्यातीतश्च। अपि चेदृशो धीमान्नरः सर्वेणात्मैक्यमुपलभमानो न केनापि पीड्यते। नात्मा शक्यश्चित्तेन वेदितुं यतः स तस्य वेदकः। अत एवात्मदशाया लाभः सदा स्वात्मतात्त्विकप्रत्यभिज्ञासम्बन्धी सन्देहो नास्ति।
समुत्थिते सहस्रारे शीघ्रमुक्तिचिह्नं तत्। प्रथमं सहस्रारः सम्यगुत्थितोऽल्पकालमेवानन्तरं तु ते काला दीर्घतराः शनैः शनैर्भूता आमोक्षात्तत्साधकस्य नूनम्। यदि सहसा साधनारम्भादेव सहस्रारः समुत्थितः सर्वकालं भवेत्साधकदेहो मृत्योरन्तिकं नीयेत बलात्। तद्विदेहमुक्तिः स्यात्तद्यथा देहत्यागेन संयुक्तो मोक्षः। किन्तु देहश्चेन्न त्यक्तो मोक्षकाले तज्जीवन्मुक्तिर्भवेत्। जीवन्मुक्तोऽनवरतं समाधिना समाविष्ट आदेहपातात्। ततः परं महासमाधौ प्रविश्यायं महात्मा परमार्थवदिहास्ते नात्र संशयः।
परन्त्वादावीदृशबुधोऽपि साधको भूतवान्न चान्यथा। आरब्धा मध्यो वृद्धश्चेति भूयिष्ठमिमे त्रयः साधकभेदाः। एकैकः साधकभेदो भावतो विशेषलक्षणोपेतोऽवश्यमेव।
यस्माद्यदात्माहमस्मि मे गुरुणोपदिष्टस्तस्मादात्मावस्थानं वर्जयित्वा न किञ्चिन्मया नूनं कर्तव्यमित्येवं ब्रुवाण आरब्धृसाधको भूयो भूयः। तथापि स तत्सर्वं न शक्नोति कर्तुमण्ववस्थया तस्य सम्यक्समीकरणात्। आत्माहमिति कथनमिदं तस्य सत्यमपि काल्पनिकमात्रं यतः स स्वात्मनो वास्तविकप्रत्यभिज्ञाहीनः। सुन्दरतमा स्त्री मे भार्यास्तीत्येवं सगर्वं निवेदयतः षण्ढस्य स आरब्धृसाधकोऽनुकरोत्येव यतो यथा पूर्वेण सा भार्याभुक्ता तथैवापरेण सा स्वातन्त्र्यानन्दरूपात्मावस्था न मनागपि भुक्तानुभूता वा तस्यासामर्थ्यात्। आत्मारब्धास्त्यपि वक्ष्यमानाणवमलात्मकनिजाशुद्ध्यसमर्थो भूत्वेदृशसाधकः सदा परतन्त्रो न तु किमपि दिव्यात्मेव स्वतन्त्रस्तत्त्वतः।
यद्यप्यहमात्मास्मि तदप्यात्मावस्थां न प्रत्यभिजानामि तस्मात्प्रतिदिनमात्मोपलाभार्थं मयात्मानं ध्यातव्यमिति मध्यसाधकेन तदुक्तम् — अन्त आत्मन्युपलब्धौ निरानन्दशुन्यतां गच्छाम्यहं किन्तु यद्गुरुणा शास्त्रैश्चात्मैवानन्दशाली निर्दिष्टस्तत्प्रमोदमयात्मदशोपलब्ध्यर्थे किं मया कर्तव्यमिति ब्रुवाणोऽपि मध्यसाधकः। अयं साधकभेदः कर्मलक्षणो यतस्ते मध्यसाधकाः सदात्मावस्थालाभाय कर्मपराः। मोहप्रतिसंहतस्तु कर्मात्मेति श्रीशिवसूत्रे सप्तषष्टसूत्रेणोपदिष्टम् — एवं च मध्यसाधकोऽज्ञानमोहितोऽपि तस्यासामर्थ्यात्। इत्थं मायाशून्यरूपप्रादुर्भूताज्ञानहेतोः स स्वात्मानमशेषेण भोक्तुमनुभवितुं वाशक्तः। केचिन्मध्यसाधका अप्यनृततुष्टेः शून्यावस्थामात्मतां मत्वा जीवन्मुक्तवदात्मनोऽभिमन्यमाना वस्तुतस्तु ते परमार्थे मूढमात्रा यत्सत्यं यतो मोक्षः सर्वदा विभव्यात्मावस्था स्वाच्छन्द्यानन्दमया न तु स्वातन्त्र्यप्रमोदौ विना शून्यता कदाचित्। तदेवोक्तं श्रीस्पन्दे
तदा तस्मिन्महाव्योम्नि प्रलीनशशिभास्करे।
सौषुप्तपदवन्मूढः प्रबुद्धः स्यादनावृतः॥
इति। श्रीस्पन्दनिर्णयेऽपि च
तदुक्तयैव नीत्या अभूतभावनयैवोत्थापितं परमेश्वरेणैव ज्ञानगोपनायै मूढानामुपेयतया तथा भासितमित्यर्थः।
इति। मध्यसाधकस्य शून्यतानुभवो विद्यते तस्यायोग्यतायाः। ततः पारमार्थ्यापेक्षया कल्पने व्यापर्तव्ये स स्वात्मवास्तवोपलब्धिलाभे प्रयत्नं हि कुर्यात्। यदिदं कृत्स्नं नित्यं परमात्मनस्तत्कस्मायपि किमिति स कञ्चिद्दद्यात्।
आत्मास्तीति वृद्धसाधकेनोक्तमस्य विश्वनाटकस्य नायकवदात्मनस्तस्योपलब्ध्याः। अत एव यद्यात्माणुरस्ति यदि वात्माणुर्नास्तीत्यादि तस्मिन् सर्वस्मिन् स न सपक्षपातोऽधुना। इति हेतोर्वृद्धसाधकः सदा स्वातन्त्र्यानन्दरूपकस्य स्वात्मन उद्यम उन्मज्जनेऽवहिततापरो वक्ष्यमानः।
यदा कस्यचिद्वृद्धसाधकस्य जागरस्वप्नसौषुप्तपदानामाद्यन्तेऽस्त्यात्मोपलब्धिस्तदा सोऽनवरतात्मोपलब्ध्यात्मके मोक्षे कल्पो न सन्देहः। तदेवोपदिष्टं श्रीमत्क्षेमराजेन श्रीस्पन्दनिर्णये
यत एवासुप्रबुद्धस्य तदाद्यन्तेऽस्ति तदुपलब्धिरत एवायमिहाधिकारी स्पन्दोपदेशैः सुप्रबुद्धीक्रियते।
इति। कदायं वृद्धसाधको भवति जीवन्मुक्तः सुप्रबुद्धो वा — यदास्य तेषां पदानां मध्य आत्मोपलब्धिर्विद्यते। ममोपदेशो दृढीकृतः श्रीमद्वसुगुप्तेन स्वस्यां श्रीस्पन्दे
तस्योपलब्धिः सततं त्रिपदाव्यभिचारिणी।
नित्यं स्यात्सुप्रबुद्धस्य तदाद्यन्ते परस्य तु॥
इति। किन्त्वेकतो वृद्धसाधकतायाः प्रसरः सुप्रबुद्धतां जीवन्मुक्ततां वा शनैः प्रवर्तते शक्तिपातनानाप्रकर्षानुरूपेणैवापरतश्च तत्साधकस्यात्मोपलब्धिः पञ्चमशिवसूत्रेण स्मृतेव यथावद्वर्तते
उद्यमो भैरवः॥
इति। भैरव आत्मन्युन्मज्जिते ब्रह्मरन्ध्रारूढात्मशक्तिः शिखायां प्रविश्य शिखाग्र उन्मनायां सम्प्रलीयमाना — अयं मोक्ष वक्ष्यमान आत्मावस्थालाभो भवति नूनम्। यस्माज्जीवन्मुक्तो मोहाभावलक्षणस्तस्मात्स नैव कदाचिदात्मानमुद्दिश्य मुह्यति — किमिति यतोऽयं सुप्रबुद्धः प्रत्यक्षमूलेनात्मज्ञानेन युतः सर्वदात एव चास्य ज्ञानं न जातुचिदागमानुमानतन्त्रम्। जीवन्मुक्तदशा स्पष्टं निर्दिष्टा श्रीस्पन्दे
ज्ञानज्ञेयस्वरूपिण्या शक्त्या परमया युतः।
पदद्वये विभुर्भाति तदन्यत्र तु चिन्मयः॥
इति। न किमप्यात्मकपटप्रबन्धे नित्ययुक्तस्य चिन्त्याणोर्ज्ञानमूला तात्त्विका परमार्थनिष्ठापि तु सुप्रबुद्धलब्धविविक्ताचिन्त्यात्मोपलब्धिसम्यङ्मूलैव॥९॥
Continuará
Información adicional
Este documento ha sido concebido por Gabriel Pradīpaka, uno de los dos fundadores de este sitio, y guru espiritual versado en idioma Sánscrito y filosofía Trika.
Para mayor información sobre Sánscrito, Yoga y Filosofía India; o si quieres hacerme algún comentario, preguntar algo o corregir algún error, siéntete libre de contactarnos: Ésta es nuestra dirección de correo.
Regresa a III. 21-23 | Sigue leyendo IAST |