Töltsd le és telepítsd a nélkülözhetetlen betűtípusokat(s) Hogy megtekinthesd a Szanszkritot annak teljes fényében Olvass Transzliteráció (2) (magyar) hogy teljes mértékben átlásd a transzliterációs rendszert |
Parātrīśikāvivaraṇa (Paratrishika Vivarana): Stanzák 1 - 2 - 2. Rész - Non-dual Shaivism of Kashmir
Normál fordítás
|
Bevezetés
A Parātrīśikāvivaraṇa folytatódik. Abhinavagupta tovább kommentálja a Parātrīśikā 1. stanzáját.
Az a kommentár második része az 1. és a 2. stanzákhoz.
Természetesen, mellékelem az eredeti stanzákat is, amiket Abhinavagupta kommentál. Írok majd egy "globális, hosszú kifejtést" konkrétan a fordítás után, mert ha az individuális "megjegyző kifejtések" rendszerét használnám, mint általában, akkor a túl sok megjegyzés nem volna praktikus. Emellett, ilyen sok megjegyzést leprogramozni egyenként, rendkívül időigényes volna. Ezzel a "globális, hosszú kifejtéssel" annyira érthetővé próbálom majd tenni a szöveget, amennyire csak lehetséges.
Abhinavagupta Szanszkritja sötétzöld színt kap, míg az eredeti Śiva/Śakti stanzák sötétvörössel jelennek meg. Emellett, a transzliteráción belül, az eredeti stanzák barnák, míg Abhinavagupta kommentárja fekete színnel szerepel. Szintén, a fordításon belül Śiva/Śakti eredeti stanzái, vagyis a Parātrīśikā zöld és fekete színeket kap, míg Abhinavagupta kommentárja (azaz a Vivaraṇa) fekete és vörös színnel lesz látható.
Olvasd a Parātrīśikāvivaraṇa-t és tapasztald meg a Legfőbb Ānanda-t vagy Isteni Gyönyört, kedves Śiva.
Fontos: Minden zárójelben írt és dőlt betűvel szedett szöveget én adtam hozzá a fordításhoz, hogy egy bizonyos kifejezés vagy mondat lényegét érthetőbbé tegyem. Minden dupla kötőjellel tagolt szövegrészt (--...--) hasonló módon én adtam hozzá, további tisztázások végett.
1. Stanza (A kommentár második része)
तद्ग्रन्थिनिर्दलनार्थ एवायमस्माकं तच्छासनपवित्रितानां यत्नः। उक्तः सम्बन्धः। अभिधेयं त्रीशिकेति तिसृणां शक्तीनामिच्छाज्ञानक्रियाणां सृष्ट्याद्युद्योगादिनामान्तरनिर्वाच्यानामीशिका ईश्वरी ईशना चेशितव्याव्यतिरेकेणैव भाविनी — इत्येतच्छक्तिभेदत्रयोत्तीर्णा तच्छक्त्यविभागमयी संविद्भगवती भट्टारिका परा अभिदेयं तद्योगादेव चेदमभिधानं त्रीशिकाख्यम्। त्रिंशकेत्यपि गुरवः पठन्त्यक्षरवादसाम्याच्च निरुक्तमाहुः — तिस्रः शक्तीः कायति — इति त्रिंशका न तु त्रिंशत्श्लोकयोगात्त्रिंशिका एतावतोऽपि त्रिंशकार्थत्वात्। तथाहि श्रीतन्त्रसारे
त्रिंशकार्थस्त्वया प्रोक्तः सार्धकोटिप्रविस्तरः।
इति। अभिधानाभिदेययोश्च पर एव सम्बन्धः तादात्म्यात् — इत्युक्तप्रायम्। प्रयोजनं च सर्वप्रमातॄणां विभोः परशक्तिपातानुग्रहवशोत्पन्नैतावदनुत्तरज्ञानभाजनभावानामित्थं निजस्वरूपहृदयङ्गमीभावेन निजामोदभरक्रीडाभासितभेदस्य निखिलबन्धाभिमततत्त्वव्रातस्य स्वात्मचमत्कारपूर्णाहन्तातादात्म्यभैरवस्वरूपाभेदसमावेशात्मिका जीवत एव मुक्तिः। प्राणदेहादिभूमावेव ह्यन्तर्बहिष्करणविषयायां प्रेरणाख्यायामुद्योगबलजीवनादिरूपायां रूढस्य बन्धाभिमतेभ्यो मुक्तिः — इति गीयते। त्रुटितेऽपि हि मायीये संस्कारमात्रे केयं मुक्तिवाचोयुक्तिः किमपेक्षया वेति। तदुक्तं श्रीस्पन्दे
इति वा यस्य संवित्तिः क्रीडात्वेनाखिलं जगत्।
स पश्यन्सततं युक्तो जीवन्मुक्तो न संशयः॥
इति। स्फुटीभविष्यति चेतद् अविदूर एव। तदनेन स्वसंवेदनेन प्रयोजनमेवात्र सकलपुमर्थपर्यवसानम् — इति प्रयोजनप्रयोजनानवकाशः। उक्तान्येव सम्बन्धाभिधेयप्रयोजनानि।
अथ ग्रन्थार्थो व्याख्यायते। अनुत्तरमिति न विद्यत उत्तरमधिकं यतो यथा हि तत्त्वान्तराणि षट्त्रिंशद् अनाश्रितशिवपर्यन्तानि परभैरवबोधानुप्रवेशासादिततथाभावसिद्धीनि संविदमधिकयन्ति नैवं परा परिपूर्णा परभैरवसंवित्तस्याः सदा स्वयमनर्गलानपेक्षप्रथाचमत्कारसारत्वात्। तथा न विद्यत उत्तरं प्रश्नप्रतिवचोरूपं यत्र यत एव हि महासंवित्सिन्धोरुल्लसदनन्तप्रतिभापर्यन्तधाम्न उल्लास्यप्रश्नप्रतिभानादिपात्रं भवति शिष्यस्तदेव वस्तुतस्तत्त्वं सततोदितम् — इति किमिवाचार्यीयमुत्तरमन्यत्स्यात्। उत्तरणमुत्तरो भेदवादाभिमतोऽपवर्गः स हि वस्तुतो नियतिप्राणतां नातिक्रामति। तथाहि प्रथमं शरीरात्प्राणभूमावनुप्रविश्य ततोऽपि बुद्धिभुवमधिशय्य ततोऽपि स्पन्दनाख्यां जीवनरूपतामध्यास्य ततोऽपि सर्ववेद्यप्रक्षयात्मशून्यपदमधिष्ठाय ततोऽपि सकलमलतानवतारतम्यातिशयधाराप्राप्तौ शिवत्वव्यक्त्या अणुरपवृज्यत आरोपव्यर्थत्वात् — इति। ईदृश एव नाभिहृत्कण्ठतालुब्राह्मभैरवबिलाद्यधिष्ठानक्रमप्राप्त ऊर्ध्वतरणक्रम उत्तरस्तथोत्तरन्त्यत इत्युत्तरो बन्ध उत्तरणमुत्तरो मोक्षस्तद् एवंविधा उत्तरा यत्र न सन्त्युत्तरं च शब्दनं तत् सर्वथा ईदृशं तादृशमिति व्यवच्छेदं कुर्यात्तद्यत्र न भवत्यव्यवच्छिन्नमिदमनुत्तरम्। इदमित्यपि हि व्यवच्छिन्नोत्तरव्यवच्छेदप्राणमेव — इति व्य्वच्छेदकत्वाद्विकल्पात्मैवात एव यावदनुत्तरे रूपे प्रविविक्षुर्मायीयः प्रमाता तावत् कल्पित एव विशेषात्मनि तत्र त्वविकल्पितं यद् अविनाभावि तद्विना कल्पितरूपास्फुरणात्तदेव वस्तुतोऽनुत्तरम्। तत्र हि भावनादेरनुपपत्तिरेव वस्तुतः — इति भावनाकरणोज्झितत्वमुक्तं न त्वनुपयुक्तित एव तद् ईदृशमनुत्तरं व्य्ववहारवृत्तिष्वप्येवमेव — इति। तदुक्तं मयैव स्तोत्रे
वितत इव नभस्यविच्छिदैव प्रतनु पतन्न विभाव्यते जलौघः।
उपवनतरुवेश्मनीध्रभागाद्युपधिवशेन तु लक्ष्यते स्फुटं सः॥ इति।
... तद्वत् परभैरवोऽतिसौक्ष्म्यादनुभवगोचरमेति नैव जातु॥
अथ देशाकृतिकालसन्निवेशस्थितिसंस्पन्दितकारकत्वयोगाः।
जनयन्त्यनुभाविनीं चितिं ते झटिति न्यक्कृतभैरवीयबोधाः॥
इत्यादि। तथा च वक्ष्यत उत्तरस्याप्यनुत्तरमिति। व्याख्यायते चैतत्। एवमेव नरात्मनः शाक्तमुत्तरं ततोऽपि शाम्भवं तथा तेष्वपि भूततत्त्वात्ममन्त्रेश्वरशक्त्यादिभेदेन स्वात्मन्येवोत्तरोत्तरत्वं भूतादिष्वपि पृथिव्यादिरूपतया जाग्रत उत्तरं स्वप्नस्ततः सुप्तं ततस्तुर्यं ततोऽपि तदतीतं जाग्रदादिष्वपि स्वात्मन्येव चतुरादिभेदतयोत्तरोत्तरत्वम्। तदेतत् श्रीपूर्वपञ्चिकायां मयैव विस्तरतो निर्णीतमिहानुपयोगात्ग्रन्थगौरवाच्च न वितत्योक्तम्। तद् ईदृशमौत्तराधर्यद्वैतसम्मोहाधायि उत्तरत्वं तथा विप्रराजन्यवैश्यशूद्रान्त्यजातिविभागमयमूनाधिकत्वं यत्र न स्याद्भावप्राधान्यमुत्तरशब्दस्य। उत्तराः पश्यन्त्याद्याः शक्तयोऽघोराद्याः पराद्यास्ता यत्र न स्युर्नुद प्रेरण इत्यस्य नोदनं नुत् तया तरणं दीक्षाक्रमेण तरः शिष्यचैतन्ये गुरुचैतन्यं प्रेर्यते तेन हंसप्राणादिशून्यविषुवत्प्रभृतिस्थानभेदपरिपाट्या सकले निष्कलेऽपि वा पूर्णाहुतियोजनिकादिस्थित्या मोक्षदां दीक्षां विधत्ते तद् अत्र चैतन्यस्य स्वप्रकाशस्य व्यापिनो देशकालाकारविशेषाविशेषितस्य कथङ्कारमिमा विडम्बनाः। तद् एवंविधो नुदा प्रेरणेन तरस्तरणं यत्र न भवति तद् अनुत्तरम्। यद्वक्ष्यते
एवं यो वेत्ति तत्त्वेन तस्य निर्वाणगामिनी।
दीक्षा भवति...॥
इति। अनिति श्वसितीति क्विपि अन् — अणुरात्मा देहपुर्यष्टकादिस्तथाननं जीवनम् अन् देहाद्यन्तर्गतैव भिन्नभिन्नशक्त्याद्यहन्ताशून्यप्राया जीवनाख्या वृत्तिर्यः शून्यप्रमातेत्यभिहितस्तस्यैवोत्तरत्वं सर्वतः परमार्थतयाधिक्यं यत्र — भैरवैकमयत्वात्। जडाजडभरिते जगति जडैर्जीवदेकमग्नैः स्थीयते जीवतां च जीवनं नाम प्रागुक्तं ज्ञानक्रियारूपमेकं पारमेश्वर्यं सर्वेषां परत्रापि हि स्ववत्। देहादिरेव पृथक्तया भाति। यत् पुनः प्राणनं तद् अभेदेनैव स्वप्रकाशमेतदेव च परमार्थः। यदुक्तं श्रीमदुत्पलदेवपादैः
ज्ञानं क्रिया च भूतानां जीवतां जीवनं मतम्।
इति। तथा च जीवनं ज्ञानक्रिय एवेति। अ इति च येयममायीयाश्रौतनैसर्गिकमहाप्रकाशविश्रान्तनिस्तरङ्गचिदुदधिस्वात्मचमत्काररूपा शाक्तोल्लासमयविश्वामर्शनरूपपरिपूर्णाहम्भावप्रथमपर्यवसानोभयभूमिगा कला तस्या एव वक्ष्यमाणनयेन येयं नुद् विसर्गान्तता तस्या एव तरः प्लवनं — सर्वोपरिवृत्तित्वं यत्र। अविद्यमाना देशकालगमनागमनादिद्वैतसापेक्षा नुत् प्रेरणा क्रमात्मकक्रियामयी यत्र तद् अनुद् आकाशादि लोकप्रसिद्ध्या ततोऽपि सातिशयमनुत्तरं तस्यापि ह्याकाशादेः संयोगिघटादिचित्रोपाधिवशात्समवायिशब्दादियोगाच्च स्यादपीदृशी सक्रमा क्रिया। संवित्तत्त्वे तु सर्वतोऽनवच्छिन्नपूर्णस्वातन्त्र्यैश्वर्यसारे विच्छिन्नचमत्कारमयविश्रान्त्या स्वीकृतशङ्क्यमानोपाधिभावसकलेदन्तास्पदभावपूगपरिपूरिताहमात्मनि निराभासे सदाभासमाने स्वीकाराभासीकृतानाभास इदन्ताभासतदनाभाससारदेशकालापेक्षक्रमाभावादक्रमैव स्वात्मविमर्शसंरम्भमयी मत्स्योदरीमतादिप्रसिद्धा विमर्शाभिधा क्रियेति तदेवानुत्तरम्। अतिशयमात्रे तमपो विधिर्द्विवचनविभज्योपपदेऽत्र तरप्। तत्रायं शुक्लोऽयं शुक्लोऽयमनयोरतिशयेन शुक्ल इति वाक्येऽयमर्थः — अनयोः शुक्लयोर्मध्यादतिशयेनायं शुक्लः शुक्लतर एषां तु शुक्लानामयमतिशयेन शुक्ल इति कोऽयमधिकोऽर्थस्तथाहि — अयं प्रासादः शुक्लोऽयं पटश्च शुक्लोऽयं हंसश्च शुक्ल एषां सातिशयः शुक्लतम इति तत्र प्रासादोऽपि शुक्लः पटोऽपि शुक्ल इति किमिवाधिकमुक्तं स्यात्।...
Tadgranthinirdalanārtha evāyamasmākaṁ tacchāsanapavitritānāṁ yatnaḥ| Uktaḥ sambandhaḥ| Abhidheyaṁ trīśiketi tisṛṇāṁ śaktīnāmicchājñānakriyāṇāṁ sṛṣṭyādyudyogādināmāntaranirvācyānāmīśikā īśvarī īśanā ceśitavyāvyatirekeṇaiva bhāvinī — Ityetacchaktibhedatrayottīrṇā tacchaktyavibhāgamayī saṁvidbhagavatī bhaṭṭārikā parā abhideyaṁ tadyogādeva cedamabhidhānaṁ trīśikākhyam| Triṁśaketyapi guravaḥ paṭhantyakṣaravādasāmyācca niruktamāhuḥ — Tisraḥ śaktīḥ kāyati — Iti triṁśakā na tu triṁśatślokayogāttriṁśikā etāvato'pi triṁśakārthatvāt| Tathāhi śrītantrasāre
Triṁśakārthastvayā proktaḥ sārdhakoṭipravistaraḥ|
iti| Abhidhānābhideyayośca para eva sambandhaḥ tādātmyāt — Ityuktaprāyam| Prayojanaṁ ca sarvapramātṝṇāṁ vibhoḥ paraśaktipātānugrahavaśotpannaitāvadanuttarajñānabhājanabhāvānāmitthaṁ nijasvarūpahṛdayaṅgamībhāvena nijāmodabharakrīḍābhāsitabhedasya nikhilabandhābhimatatattvavrātasya svātmacamatkārapūrṇāhantātādātmyabhairavasvarūpābhedasamāveśātmikā jīvata eva muktiḥ| Prāṇadehādibhūmāveva hyantarbahiṣkaraṇaviṣayāyāṁ preraṇākhyāyāmudyogabalajīvanādirūpāyāṁ rūḍhasya bandhābhimatebhyo muktiḥ — Iti gīyate| Truṭite'pi hi māyīye saṁskāramātre keyaṁ muktivācoyuktiḥ kimapekṣayā veti| Taduktaṁ śrīspande
Iti vā yasya saṁvittiḥ krīḍātvenākhilaṁ jagat|
Sa paśyansatataṁ yukto jīvanmukto na saṁśayaḥ||
iti| Sphuṭībhaviṣyati cetad avidūra eva| Tadanena svasaṁvedanena prayojanamevātra sakalapumarthaparyavasānam — Iti prayojanaprayojanānavakāśaḥ| Uktānyeva sambandhābhidheyaprayojanāni|
Atha granthārtho vyākhyāyate| Anuttaramiti na vidyata uttaramadhikaṁ yato yathā hi tattvāntarāṇi ṣaṭtriṁśad anāśritaśivaparyantāni parabhairavabodhānupraveśāsāditatathābhāvasiddhīni saṁvidamadhikayanti naivaṁ parā paripūrṇā parabhairavasaṁvittasyāḥ sadā svayamanargalānapekṣaprathācamatkārasāratvāt| Tathā na vidyata uttaraṁ praśnaprativacorūpaṁ yatra yata eva hi mahāsaṁvitsindhorullasadanantapratibhāparyantadhāmna ullāsyapraśnapratibhānādipātraṁ bhavati śiṣyastadeva vastutastattvaṁ satatoditam — Iti kimivācāryīyamuttaramanyatsyāt| Uttaraṇamuttaro bhedavādābhimato'pavargaḥ sa hi vastuto niyatiprāṇatāṁ nātikrāmati| Tathāhi prathamaṁ śarīrātprāṇabhūmāvanupraviśya tato'pi buddhibhuvamadhiśayya tato'pi spandanākhyāṁ jīvanarūpatāmadhyāsya tato'pi sarvavedyaprakṣayātmaśūnyapadamadhiṣṭhāya tato'pi sakalamalatānavatāratamyātiśayadhārāprāptau śivatvavyaktyā aṇurapavṛjyata āropavyarthatvāt — Iti| Īdṛśa eva nābhihṛtkaṇṭhatālubrāhmabhairavabilādyadhiṣṭhānakramaprāpta ūrdhvataraṇakrama uttarastathottarantyata ityuttaro bandha uttaraṇamuttaro mokṣastad evaṁvidhā uttarā yatra na santyuttaraṁ ca śabdanaṁ tat sarvathā īdṛśaṁ tādṛśamiti vyavacchedaṁ kuryāttadyatra na bhavatyavyavacchinnamidamanuttaram| Idamityapi hi vyavacchinnottaravyavacchedaprāṇameva — Iti vyvacchedakatvādvikalpātmaivāta eva yāvadanuttare rūpe pravivikṣurmāyīyaḥ pramātā tāvat kalpita eva viśeṣātmani tatra tvavikalpitaṁ yad avinābhāvi tadvinā kalpitarūpāsphuraṇāttadeva vastuto'nuttaram| Tatra hi bhāvanāderanupapattireva vastutaḥ — Iti bhāvanākaraṇojjhitatvamuktaṁ na tvanupayuktita eva tad īdṛśamanuttaraṁ vyvavahāravṛttiṣvapyevameva — Iti| Taduktaṁ mayaiva stotre
Vitata iva nabhasyavicchidaiva pratanu patanna vibhāvyate jalaughaḥ|
Upavanataruveśmanīdhrabhāgādyupadhivaśena tu lakṣyate sphuṭaṁ saḥ|| Iti|
... tadvat parabhairavo'tisaukṣmyādanubhavagocarameti naiva jātu||
Atha deśākṛtikālasanniveśasthitisaṁspanditakārakatvayogāḥ|
Janayantyanubhāvinīṁ citiṁ te jhaṭiti nyakkṛtabhairavīyabodhāḥ||
ityādi| Tathā ca vakṣyata uttarasyāpyanuttaramiti| Vyākhyāyate caitat| Evameva narātmanaḥ śāktamuttaraṁ tato'pi śāmbhavaṁ tathā teṣvapi bhūtatattvātmamantreśvaraśaktyādibhedena svātmanyevottarottaratvaṁ bhūtādiṣvapi pṛthivyādirūpatayā jāgrata uttaraṁ svapnastataḥ suptaṁ tatasturyaṁ tato'pi tadatītaṁ jāgradādiṣvapi svātmanyeva caturādibhedatayottarottaratvam| Tadetat śrīpūrvapañcikāyāṁ mayaiva vistarato nirṇītamihānupayogātgranthagauravācca na vitatyoktam| Tad īdṛśamauttarādharyadvaitasammohādhāyi uttaratvaṁ tathā viprarājanyavaiśyaśūdrāntyajātivibhāgamayamūnādhikatvaṁ yatra na syādbhāvaprādhānyamuttaraśabdasya| Uttarāḥ paśyantyādyāḥ śaktayo'ghorādyāḥ parādyāstā yatra na syurnuda preraṇa ityasya nodanaṁ nut tayā taraṇaṁ dīkṣākrameṇa taraḥ śiṣyacaitanye gurucaitanyaṁ preryate tena haṁsaprāṇādiśūnyaviṣuvatprabhṛtisthānabhedaparipāṭyā sakale niṣkale'pi vā pūrṇāhutiyojanikādisthityā mokṣadāṁ dīkṣāṁ vidhatte tad atra caitanyasya svaprakāśasya vyāpino deśakālākāraviśeṣāviśeṣitasya kathaṅkāramimā viḍambanāḥ| Tad evaṁvidho nudā preraṇena tarastaraṇaṁ yatra na bhavati tad anuttaram| Yadvakṣyate
Evaṁ yo vetti tattvena tasya nirvāṇagāminī|
Dīkṣā bhavati...||
iti| Aniti śvasitīti kvipi an — Aṇurātmā dehapuryaṣṭakādistathānanaṁ jīvanam an dehādyantargataiva bhinnabhinnaśaktyādyahantāśūnyaprāyā jīvanākhyā vṛttiryaḥ śūnyapramātetyabhihitastasyaivottaratvaṁ sarvataḥ paramārthatayādhikyaṁ yatra — Bhairavaikamayatvāt| Jaḍājaḍabharite jagati jaḍairjīvadekamagnaiḥ sthīyate jīvatāṁ ca jīvanaṁ nāma prāguktaṁ jñānakriyārūpamekaṁ pārameśvaryaṁ sarveṣāṁ paratrāpi hi svavat| Dehādireva pṛthaktayā bhāti| Yat punaḥ prāṇanaṁ tad abhedenaiva svaprakāśametadeva ca paramārthaḥ| Yaduktaṁ śrīmadutpaladevapādaiḥ
Jñānaṁ kriyā ca bhūtānāṁ jīvatāṁ jīvanaṁ matam|
iti| Tathā ca jīvanaṁ jñānakriya eveti| A iti ca yeyamamāyīyāśrautanaisargikamahāprakāśaviśrāntanistaraṅgacidudadhisvātmacamatkārarūpā śāktollāsamayaviśvāmarśanarūpaparipūrṇāhambhāvaprathamaparyavasānobhayabhūmigā kalā tasyā eva vakṣyamāṇanayena yeyaṁ nud visargāntatā tasyā eva taraḥ plavanaṁ — Sarvoparivṛttitvaṁ yatra| Avidyamānā deśakālagamanāgamanādidvaitasāpekṣā nut preraṇā kramātmakakriyāmayī yatra tad anud ākāśādi lokaprasiddhyā tato'pi sātiśayamanuttaraṁ tasyāpi hyākāśādeḥ saṁyogighaṭādicitropādhivaśātsamavāyiśabdādiyogācca syādapīdṛśī sakramā kriyā| Saṁvittattve tu sarvato'navacchinnapūrṇasvātantryaiśvaryasāre vicchinnacamatkāramayaviśrāntyā svīkṛtaśaṅkyamānopādhibhāvasakaledantāspadabhāvapūgaparipūritāhamātmani nirābhāse sadābhāsamāne svīkārābhāsīkṛtānābhāsa idantābhāsatadanābhāsasāradeśakālāpekṣakramābhāvādakramaiva svātmavimarśasaṁrambhamayī matsyodarīmatādiprasiddhā vimarśābhidhā kriyeti tadevānuttaram| Atiśayamātre tamapo vidhirdvivacanavibhajyopapade'tra tarap| Tatrāyaṁ śuklo'yaṁ śuklo'yamanayoratiśayena śukla iti vākye'yamarthaḥ — Anayoḥ śuklayormadhyādatiśayenāyaṁ śuklaḥ śuklatara eṣāṁ tu śuklānāmayamatiśayena śukla iti ko'yamadhiko'rthastathāhi — Ayaṁ prāsādaḥ śuklo'yaṁ paṭaśca śuklo'yaṁ haṁsaśca śukla eṣāṁ sātiśayaḥ śuklatama iti tatra prāsādo'pi śuklaḥ paṭo'pi śukla iti kimivādhikamuktaṁ syāt|...
Eme (ayam) erőfeszítésem (yatnaḥa-asmākam) -annak, aki meg lett tisztítva az (pavitritānām) ő --Somānanda-- (tad) instrukciói által (śāsana) - csupán azért jött létre (arthe eva), hogy feloldja (nirdala) annak --Somānanda kommentárjának-- (tad) csomóit (granthi) --összességében, Abhinavagupta megpróbál válaszokat adni minden kétségre, amik megválaszolatlanok maradtak Somānanda munkájában--.
A sambandha vagy kapcsolat (sambandhaḥ) (így) meg lett határozva (uktaḥ) .
Az abhidheya vagy tárgykör (abhidheyam) a "trīśikā" (tri-īśikā iti). (Ez a kifejezés azt jelenti) az "Īśikā"-ja (īśikā) (vagy) Úrnője (īśvarī) a három (tisṛṇām) Erőnek (śaktīnām) (, mint) Akarat, Tudás és Cselekvés (icchā-jñāna-kriyāṇām), amik (szintén) ki lettek fejtve (nirvācyānām) más (antara) nevekkel (nāma), (mint) megnyilvánulás (sṛṣṭi), stb. (ādi), (vagy) kreatív aktivitás (udyoga) és így tovább (ādi). És (ca) "Īśanā" vagy "Dominancia" (īśanā) egy azzal (avyatirekeṇa eva bhāvinī), amit dominál (īśitavya). Így (iti), a tárgyköre (abhidheyam) (eme könyvnek) a Tiszta Tudatosság (saṁvid), vagyis a Legnagyobb Tiszteletre Méltó (bhaṭṭārikā) (és) Legfőbb (parā) Bhagavatī --Úrnője vagy Ereje a Szerencsés Úrnak-- (bhagavatī), aki (egyszerre) haladja meg (uttīrṇā) eme (etad) Erők --Akarat, Tudás és Cselekvés-- (śakti) hármását (bheda-trayas) (és) jelenlévő --Ő nem különül el-- (avibhāga-mayī) ezekben (tad) (a bizonyos említett) Erőkben (śakti). És (ca) (annak) Vele (tad) való kapcsolata miatt (yogāt eva), ez a (szöveg, amit kommentálok) (idam) a " (Parā) trīśikā" (tri-īśikā) címet (ākhyam) viseli (abhidhānam) .
(Más) Guru-k (guravaḥ) úgy is (api) értelmezik (paṭhanti) --azaz úgy is hívják ezt a szöveget--" (, hogy) " (Parā) triṁśakā" (triṁśakā iti). És (ca) a szótagok (akṣara) kiejtésének (vāda) hasonlatossága miatt (sāmyāt), ők meghatározzák (āhuḥ) (ezt) az etimológiai interpretációt (niruktam) : Triṁśakā (triṁśakā) (az), " (Aki) vágyik (kāyati) a három (tisraḥ) Erőre" (śaktīḥ... iti). Bár (tu), (Ő) nem (na) "triṁśikā" (triṁśikā), az (Ő) harminc (triṁśat) stanzával (śloka) való kapcsolata miatt (yogāt). (Miért?) Mert a "triṁśakā" (triṁśakā) jelentése (arthatvāt) (az egyetlen dolog, ami releváns) lehetne (api) abban az esetben, ha (a szöveg) ilyen terjedelmű volna (etāvatas) --de nem az, mivel valójában harminchét stanzát tartalmaz és nem harmincat--.
Például (tathāhi), (ki lett mondva) a tiszteletreméltó Tantrasāra-ban (tantrasāre) :
"A 'triṁśakā' (triṁśakā) jelentése (arthaḥ) Általad (tvayā) lett meghatározva (proktaḥ) tizenöt millió (versszak) hosszúságában (sārdha-koṭi... iti)".
A kapcsolat (sambandhaḥ) a (szöveg) címe és (annak) tárgyköre között (abhidhāna-abhideyayoḥ ca) csupán (eva) "Para" --Legfőbb-- (paraḥ), természetük azonossága miatt --azaz mindkettő a Végső Valósággal foglalkozik, kizárólag-- (tādātmyāt). Ez már több esetben is kifejtésre került (iti ukta-prāyam) .
És (ca) az összes én-kontrollált tapasztaló (sarva-pramātṝṇām vibhoḥ) (vagy) létező között (bhāvānām), akik fogadójává váltak (bhājana) egy ilyen (etāvat) Anuttara --a Legfőbb Valóság-- (anuttara) Tudásának (jñāna), (mely) feltárul (utpanna) a isteni Kegyelem (anugraha) hatása alatt (vaśa), az Erő (śakti) legmagasabb (para) alászállásának formájában (pāta), a (szöveg) célja (prayojanam) a Felszabadulása (muktiḥ) egy létezőnek (jīvataḥ), aki eme úton jár (ittham), a Szívéből (hṛdayaṅgamī), (melynek neve) (nija) az ő saját esszenciális természete (sva-rūpa), származó érzés miatt (bhāvena), (realizálja, hogy) a tattva-k vagy kategóriák (tattva) teljes (nikhila) csoportja (vrātasya), (mi általában) kötöttségként (bandha) van tekintve (abhimata), (valójában) különböző osztályok (bhedasya), (melyek) feltárultak (ābhāsita) a Játékból (krīḍā), ami nem egyéb, mint az ő (nija) Gyönyörének (moda) bősége (bhara). (Eme Felszabadulás) Bhairava (bhairava) természetének (sva-rūpa) nem-dualitásában (abheda) való elmerüléséből (samāveśa) áll (ātmikā), (mit jellemez) egy azonosulás (tādātmya) a Tökéletes (pūrṇa) Én-tudatossággal (ahantā), (mely megjelenik), mint az egyén saját Énjének (sva-ātma) Ragyogása (camatkāra) .
Úgy mondják (iti gīyate), hogy annak esetében, aki az életenergia (prāṇa), test (deha), és így tovább (ādi) szintjében (bhūmau eva) áll (rūḍhasya), ami valójában az Antaḥkaraṇa és Bahiṣkaraṇa körébe (antar-bahis-karaṇa) tartozik (hi... viṣayāyām), úgy nevezett (ākhyāyām), mint serkentő (preraṇa) (és) minek formája (rūpāyām) a megerőltető és folyamatos törekvés (udyoga), erő (bala), élet (jīvana), stb. (ādi), (a valódi Felszabadulás nem más, mint) megszabadulás (muktiḥ) (mindattól) ami kötöttségnek (bandha) van gondolva (abhimatebhyaḥ) .
(Bár,) amikor az, mi csupán mayikus saṁskāra --felhalmozódott benyomás-- elpusztult (truṭite api hi māyīye saṁskāra-mātre), "mi (kā) a (iyam) meghatározása (vācas-yuktiḥ) a Felszabadulásnak (mukti) ? Vagy (vā) azzal kapcsolatosan (apekṣayā) ami (kim... iti) (említve lett) ?.
Ez (a bizonyos dolog) (tad) ki lett mondva (uktam) a tiszteletreméltó Spandakārikā-kban (śrī-spande) :
"Vagy (iti vā) az (saḥ), aki (yasya) birtokolja eme tudást vagy realizációt (saṁvittiḥ) (és) szüntelen (satatam) egyesülve van (a Legfőbb Énnel) (yuktaḥ), úgy látja (paśyan) az egész (akhilam) világot (jagat), mint (isteni) játék (krīḍātvena). Ő felszabadult, miközben él (jīvanmuktaḥ), nincs (na) kétség (saṁśayaḥ... iti) (efelől) ".
És (ca) ez (etad) evidenssé válik (sphuṭī-bhaviṣyati) hamarosan (avidūraḥ eva).
Ezért (tad), (mivel) a cél (prayojanam eva) itt --jelen szövegben-- (atra), mely megjelenik, mint Én-realizáció (anena sva-saṁvedanena), minden (sakala) ember Céljaként (artha) értendő (paryavasānam), (belekezdeni egy értekezésbe) a cél (prayojana) célját (prayojana) (illetően) értelmetlen (ebben a kontextusban) (anavakāśaḥ) .
(Így,) kapcsolat, tárgykör és cél (sambandha-abhidheya-prayojanāni) (maradéktalanul) tisztázva lett (uktāni eva) .
Most (atha) az --1.-- versszak (grantha) jelentése (arthaḥ) kerül kifejtésre (vyākhyāyate) .
Az "anuttara" szó (an-uttaram iti) (kifejthető tizenhat féle módon:)
(1) Nincs semmi "uttara" vagy "további" (na vidyate uttaram adhikam), ezen túl (yatas). Például (yathā hi), a harminchat (ṣaṭ-triṁśat) másik tattva vagy kategória (tattva-antarāṇi), ami Anāśritaśiva-ban --Śiva kategóriák nélkül-- (anāśrita-śiva) végződik (paryantāni), -miknek létbizonyítéka (siddhīni-bhāva), mint ilyen vagy olyan természet (tathā-bhāva), (azok) a Legfőbb (para) Bhairava (bhairava) Tudatosságába (bodha) való szüntelen behatolásából (anupraveśa) éretik el (āsādita) - rámutat a Saṁvid-ra vagy Tiszta Tudatosságra, mint ami náluk magasabb (saṁvidam adhikayanti), (de) a Legfőbb (parā) (és) Tökéletes (paripūrṇā) Tiszta Tudatosság (saṁvid) (mi úgy ismert, mint) a Legfőbb (para) Bhairava (bhairava) nem (na) ilyen (evam) --azaz Saṁvid nem mutat egy másik valóságra, ami magasabb Nála--, mert az Ő esszenciája, mindig maga (tasyāḥ sadā... svayam... sāratvāt) egy Ragyogás (camatkāra) (mi előretör, mint) egy határtalan (anargala) (és) független (anapekṣa) kiterjedés (prathā) .
(2) Mivel (tathā), nincs "uttara" (na vidyate uttaram) --vagyis az, ami egy válasz (prativacas-rūpam) egy kérdésre (praśna) -- benne --Anuttara-ban-- (yatra). (Miért?) Mert (hi) a Székhelyből (dhāmnaḥ), minek határa (paryanta) a Végtelen (ananta) Pratibhā --Parāvāk vagy Legfőbb Beszéd-- (pratibhā), mi feltárul (ullasat) abból --Anuttara-ból-- (yatas eva), vagyis a Tiszta Tudatosság (saṁvid) Nagy (mahā) Óceánjából (sindhoḥ), a tanítvány (śiṣyaḥ) kompetenssé (pātram) válik (bhavati) az intellektuális ragyogás (pratibhāna) és így tovább (ādi), tekintetében, (arra, hogy megfogalmazza) a feltevésre váró (ullāsya) kérdést (praśna). Eme bizonyos (tad eva) Princípium (tattvam) (így,) tény (, hogy) (vastutas) szüntelen aktív (satata-uditam). Ezért (iti), hogyan volna lehetséges (kim iva) jelenléte (syāt) az Ācārya-tól vagy Guru-tól érkező (ācāryīyam) más (anyat) válasznak (uttaram), (mint a tökéletes) ?
(3) "Uttara" (uttaraḥ) (azt jelenti) "átkelni" (uttaraṇam), vagyis "apavarga" vagy "felszabadulás" (apavargaḥ), ahogy azt a dualizmus (bheda) doktrínája (vāda) gondolja (abhimataḥ). (Ő ezért úgy nevezett, mint "Anuttara", mert semmi féle "átkelés" nem szükséges az Ő eléréséhez. Emellett, paradox módon,) az --a dualizmus efféle doktrínája-- (saḥ) valójában nem (hi vastutas... na) kel át (atikrāmati) a niyatiśakti-n --az érzékekben korlátoltságot generáló erő-- (niyati-prāṇatām) .
Például (tathā-hi), először (prathamam) valaki behatol --szó szerint behatolás történik-- (anupraviśya) az (individuális) életenergia (prāṇa) szintjébe (bhūmau) a fizikai testből (śarīrāt) --azaz valaki előbb fizikai testnek tekinti magát, de később realizálja, hogy ő valójában életenergia--. Ez után (tatas api), az egyén az intellektus (buddhi) szintjén (bhuvam) nyugszik --szó szerint megnyugvás történik-- (adhiśayya) --az egyén az intellektusnak tekinti magát-- Ez után (tatas api), az egyén eléri --szó szerint belép-- (adhyāsya) abba, minek neve "spandana" --univerzáli életenergia-- (spandana-ākhyām), minek természete (rūpatām) az élet (jīvana). Ez után (tatas api), megérkezik --szó szerint megérkezés történik-- (adhiṣṭhāya) az üresség (śūnya) állapotában (padam), minek esszenciája (ātma) minden (sarva) tudható --az objektumok-- (vedya) feloldódása (prakṣaya). Ez után (tatas api), elérvén (prāptau) a csúcsát --a legmagasabb pontot-- (dhārā) a legfelsőbbnek (atiśaya) a "tāratamya" vagy "fokozatosság" (tekintetében) (tāratamya), (aminek jele) minden (sakala) tisztátalanság (mala) csökkenése (tānava), a korlátolt individuum (aṇuḥ) megoldódik --vagyis ő felszabadul-- (apavṛjyate), Śiva Állapotának (śivatva) megnyilvánulása által (vyaktyā). (Ám,) (eme) emelkedés (āropa... iti) haszontalansága végett (vyarthatvāt), (lévén minden korábbi állat szintén Śiva Állapota, mi értelme van venni a fáradságát annak, hogy eléressen a legfelsőbb csúcsa a fokozatosságnak?) .
(4) (Ugyanígy,) "uttara" (uttaraḥ) (azt is jelenti, hogy) egy fokozatossága (kramaḥ) a felemelkedésnek --szó szerint a felfelé való haladás aktusai-- (ūrdhva-taraṇa), (mely) végrehajtatik (prāptaḥ) állomások --mintha azok lépcsőfokok volnának-- (adhiṣṭhāna) fokozatosságának (krama) (követése által), (mint) köldök (nābhi), szív (hṛd), torok (kaṇṭha), szájpadlás (tālu), Sahasrāra --a cakra a fej koronájában-- (brāhma), Brahmarandhra --szó szerint Bhairava lyuka-- (bhairava-bila), stb. (ādi). (Így Ő úgy nevezett, mint Anuttara, mert nincs semmiféle felemelkedés ezeken az említett "állomásokon" keresztül nem szükséges az Ő eléréséhez) .
(5) Hasonlóképpen (tathā), "uttara" (uttaraḥ) (azt is jelentheti, hogy) kötöttség (bandhaḥ), mert nekik meg (kell) szökni (uttaranti) abból (atas) --vagyis az embereknek meg kell szöknie a kötöttségből--. "Uttara" (uttaraḥ) (szintén jelenti azt, hogy) "meghaladás" (uttaraṇam) a Felszabadulás (értelmében) (mokṣaḥ). Ezért (tad), (Ő Anuttara) kiben (yatra) ilyen (evaṁvidhāḥ) "uttara-k" --vagyis kötöttség és Felszabadulás-- (uttarāḥ) nem (na) léteznek (santi). (Dióhéjban, Ő, lévén minden dolog, úgy nevezett, mint Anuttara, mert nincs kötöttség, amiből Neki meg kellene szöknie, és következésképpen a szökés --Felszabaduláss-- teljes kérdésköre az Ő esetében jelentéktelen. Hová menne Ő, ha minden Ő Maga? És valójában mit hagyna hátra képzelt szökése során, ha mindez szintén Ő Maga?) .
(6) És (ca) "uttara" (uttaram) (szintén jelezheti) aktusát a beszédnek (śabdanam tad), ami korlátozza (vyavacchedam kuryāt) (a Végső Valóságot) minden tekintetben (sarvathā), (például:) "Ennek ilyen jellemzői vannak (īdṛśam), ez ilyen (tādṛśam iti) ". Ezért (tad), Ez (idam) szakadatlan Anuttara (avyavacchinnam... anuttaram), miben (yatra) nincs jelen (na bhavati) (e fajta limitáció) .
(7) Még (api) "Ez"-nek (idam iti) (nevezni a Végső Valóságot) (is) valójában (hi... prāṇam eva) kirekesztés (vyavaccheda) egy korlátolt "uttara" vagy beszéd mód (uttara) (formájában) (vyavacchinna). Így (iti), ("Ez"-nek nevezni a Végső Valóságot) (csupán) egy gondolat vagy vikalpa (vikalpa-ātmā eva), annak kirekesztése miatt --az befogadja Ezt, de kirekeszt minden mást-- (vyvacchedakatvāt). Ez okból kifolyólag (atas eva), amíg (yāvat) a mayikus tapasztaló --korlátolt individuum-- (māyīyaḥ pramātā) vágyik arra (pravivikṣuḥ), hogy belépjen Anuttara természetébe (anuttare rūpe), addig (tāvat) (ő megmarad) egy részleges "kalpita"-ban --a gondolatok egy birodalmában, ami "meghatározott"-- (kalpite eva viśeṣa-ātmani). Ebben a kontextusban (tatra tu), ami nincs meghatározva vikalpa vagy gondolat által (avikalpitam yad) (az) "avinābhāvi" vagy "mindenben jelenlévő" (avinābhāvi), mert Nélküle nem volna megnyilvánulása annak ami "kalpita" vagy "vikalpa által meghatározott" (tad vinā kalpita-rūpa-asphuraṇāt). (És) Az --ami nem meghatározott Vikalpa-k által, ami mindenben jelenlévő-- (tad eva) az valójában (vastutas) Anuttara (anuttaram) .
(Következésképpen,) Abban --Anuttara-ban-- (tatra), valójában (hi... vastutas) nincs értelme (anupapattiḥ eva) (olyan dolgoknak, mint) kontempláció, stb. (bhāvanā-ādeḥ). Így (iti), (Anuttara) úgy mond (uktam) egy Állapot, mely szabad (ujjhitatvam) kontemplápciótól (bhāvanā) (és) karaṇa-tól (karaṇa). Bár (tu), ez nem (na) (jelenti azt, hogy a kontempláció és karaṇa) haszontalan (anupayuktitaḥ eva). Ezért (tad), egy ilyen (īdṛśam) Anuttara (anuttaram) így (jelen van) (evam eva) még (api) a hétköznapi élet (vyvavahāra... iti) aktivitásában is (vṛttiṣu) .
Elmondtam (uktam mayā eva) ezt (az igazságot) (tad) egy (bizonyos) himnuszban (stotre) :
"Egy nagyon csekély (prathanu) mennyisége a víznek (jala-oghaḥ), mi szüntelen (avicchidā eva) hullik (patan) --azaz szitál-- nem (na) látható tisztán (vibhāvyate) a hatalmas égbolton (vitate iva nabhasi). Ám (tu) az --a szitáló eső-- (saḥ) tisztán (sphuṭam) észlelhető (lakṣyate) egy kis erdő (upavana) fái (taru) előtt nézve (upadhi-vaśena), vagy egy háztető ereszének (aveśma-nīdhra) egy része (bhāga) előtt, stb. (ādi) ... ugyanígy (tadvat), a Legfőbb Bhairava (para-bhairavaḥ), lévén Ő rendkívül finom (atisaukṣmyāt), sohasem (na eva jātu) lép be (eti) a tapasztalás (anubhava) körébe (gocaram). Most (atha), azok módszerekkel való kapcsolata miatt (yogāḥ), mik aktivitását (kārakatva) tér (deśa), forma (ākṛti), idő (kāla), sorrend (sanniveśa) (és) állapot (sthiti) hozza létre (saṁspandita), azok, kiknek Bhairava-ról való (bhairavīya) ébersége (bodhāḥ) homályos (nyakkṛta), azonnal (jhaṭiti) létrehozzák (janayanti) a Te (te) Megismerő (anubhāvinīm) Tudatosságodat (citim) --azaz ők elhozzák Bhairava-t a tapasztalás körébe (ők észlelhetővé teszik Őt, úgy mond) az által, hogy létrehozzák az Ő saját Tudatosságát (Citi vagy Śakti)--".
Stb, stb (iti-ādi) .
És (ca) ilyen módon (tathā) ez később kifejtésre kerül (vakṣyate) hogy még (api) "uttara" vagy "válasz" (uttarasya) sem egy válasz (anuttaram iti).
(Most,) ez (etad) (az, ami) fel lett ráva (Anuttara-ról:) (vyākhyāyate ca)
(8) Így (evam), Śāktopāya (śāktam) magasabb (uttaram), mint az, mi "nara"-n vagy limitált individuumon alapszik --vagyis Āṇavopāya-- (ātmanaḥ-nara), (és) Śāmbhavopāya (śāmbhavam) még (api) (magasabb) annál is --azaz a Śāktopāya-nál-- (tatas). Hasonlóképpen (tathā), még ezen (upāya-k vagy módszerek) között is (teṣu) fokozatosság van --szó szerint egy egyre magasabb és magasabb állapot-- (uttara-uttaratvam) az egyén saját Énjével kapcsolatosan (sva-ātmani eva), egy osztály tekintetében (bhedena) : (vagyis) durva elemek (bhūta), tattva vagy kategória (tattva), Mantra-k urai (mantra-īśvara), erők (śakti) és így tovább (ādi). (És) még (api) az elemek és a többi között is (bhūta-ādiṣu), (jelen van a fokozatosság) a föld (pṛthivī), stb. (ādi) formájában (rūpatayā). Az álom (svapnaḥ) magasabb (uttaram), mint az ébrenlét (jāgrataḥ), a mély-alvás (suptam) (magasabb), mint az --vagyis az álom-- (tatas), Turya --a tudatosság Negyedik Állapota-- (turyam) (magasbb), mint az --vagyis a mély-alvás-- (tatas), (és végül a Turyātīta vagy) az (Állapot,) mely túl van (atītam) azon --vagyis a Turya-n-- (tad) még (api) (magasabb) annál --vagyis a Turya-nál-- is (tatas). (Valamint) még (api) az ébrenlét, stb. (jāgra-ādiṣu) között is, (jelen van) egy fokozatosság (uttara-uttaratvam) az egyén saját Énjével kapcsolatosan (sva-ātmani eva) egy négyes (állapot) (catur), és így tovább, (ādi) osztályánakformájában (bhedatayā) .
Ez a (témakör) (tad etad) részletesen (vistaratas) elemzésre került (nirṇītam) általam (mayā eva) a tiszteletreméltó Pūrvapañcikā-ban (śrī-pūrvapañcikāyām). (De) itt (iha) nincs (na) kifejtve (uktam) hosszasan (vitatya), mivel ezt tenni haszontalan volna (anupayogāt) és (ca) (mert) a könyv túl "nehéz" --túl hosszú-- lenne (szükségtelenül) (grantha-gauravāt) .
Ezért (tad), "uttara" ilyen (īdṛśam) állapota, mint egy fokozatosság (uttaratvam), okozza (ādhāyi) a teljes káprázatát (sammoha) a dualizmusnak (dvaita) (, mi megjelenik), mint az alul és felül levés állapota (auttarādharya). (Anuttara így hát Az, ahol egyáltalán nincs "uttara" vagy fokozatosság!) .
(9) Ezért (tathā), (Anuttara Az az Egy), akiben (yatra) nincs (na syāt) ("uttara" vagy) "állapota a csökkenésnek és gyarapodásnak" (ūna-adhikatvam), mi áll (mayam) osztályaiból (vibhāga) a kasztoknak (jāti) : brāhmaṇa (vipra), kṣatriya (rājanya), vaiśya (vaiśya) (és) śūdra (śūdra) -az alsó kaszt tagnai- (antya-jāti). (Ebben a kontextusban, így) túlsúlya van (prādhānyam) az "uttara" (uttara) szó (śabdasya) egy elvont értelmének (bhāva), (vagyis ez úgy van most tekintve, mint "egy állapota a csökkenésnek és gyarapodásnak", ami egy elvont koncepció) .
(10) Az "uttara-k" (uttarāḥ) erők (śaktayaḥ), (mik úgy ismertek, mint) Paśyantī, stb. (paśyantī-ādyāḥ) (Ennek eredményeképpen, Anuttara Az, amiben nincsenek ilyen erők) .
(11 és 12) (Anuttara Az az Egy) kiben (yatra) nincsenek (na syuḥ) (az erők, miknek nevei) Aghorā, stb. És Parā, stb.. (aghorā-ādyāḥ parā-ādyāḥ tāḥ)
(13) A "nud" gyökből (nud-a) (származó) jelentés, mint "mozgásba hozni" (preraṇe iti), a "nut" kifejezés (nut) (jelentheti azt, hogy) annak (asya) nyomó vagy lendító aktusa (nodanam). Eme ("nu" vagy lendítő aktus) által (tayā), "tara" (taraḥ) (vagy) átkelés (taraṇam) (jelenik meg) a beavatás módszere (dīkṣā) által (krameṇa). (Más szavakkal, "nuttara" jelentheti azt, hogy "egy átkelés, a beavatás általi mozgásba hozás aktusán keresztül". Összességében,) a Guru (guru) tudatossága (caitanya) mozgásba lendül (preryate) a tanítvány (śiṣya) tudatosságában (caitanye). Ezért (tena), (akár) egy sakala-ban (sakale) vagy (api vā) niṣkala-ban (niṣkale) --a beavatás két típusa--, (a Guru) végrehajt (vidhatte) egy beavatást (dīkṣām), ami Felszabadulás eredményez (mokṣa-dām), a különböző (bheda) helyzetekhez (sthāna) igazodó módszer által (paripāṭyā), (mint) a kilégzés és belégzés közti tér (viṣuvat), stb. (prabhṛti), ami híján van (śūnya) a prāṇa-nak --életenergia, ami kiárad minden kilégzésbél-- (prāṇa), stb. (ādi) a Haṁsa mantra (haṁsa) gyakorlása közben, (és szintén) a yojanikā (yojanikā) szilárd praxisán keresztül (sthityā) és így tovább (ādi), a teljes (pūrṇa) felajánlás közben (āhuti). Azzal --a beavatással-- (tad) kapcsolatosan, hogyan (kathaṅkāram) (jöhetnek szóba) ebben a kontextusban (atra) ezek (imāḥ) az istenkáromlások (viḍambanāḥ) a Caitanya --Tudatosság Abszolút Szabadságban--, estében (caitanyasya), ami Önmagától-ragyogó (sva-prakāśasya), Mindent átható (vyāpinaḥ) (és) nem meghatározható (aviśeṣitasya) részleges jellemzők által (viśeṣa) (, mint) tér (deśa), idő (kāla) (és) forma (ākāra) ?
Ezért (tad) Anuttara (anuttaram), Az (tad), ahol (yatra) nincs jelen (na bhavati) ilyen (evaṁvidhaḥ) "tara" (taraḥ) (vagy) "átkelés" (taraṇam), a "nut"-on (nudā) (vagy) "mozgásba lendülés aktusán" keresztül (preraṇena) .
Ahogy (yad) az később meghatározásra kerül (vakṣyate) :
"A Nirvāṇa-hoz (nirvāṇa) vezető (gāminī) beavatás (dīkṣā) van jelen (bhavati), (mi kétségtelenül híján van szezámmal és tisztított vajjal történő felajánlásnakm,) annak (tasya), aki (yaḥ) valóban (tattvena... iti) így (evam) tud (vetti)".
(14) Az "an" (an), az "an" --lélegezni-- (an iti) gyökből (származva), (kiegészülve) a "kvip" toldalékkal (kvipi), (jelezheti, hogy) "ő lélegzik" (śvasiti iti). (Dióhéjban, "an" szimbóluma) az "aṇu"-nak (aṇuḥ) (vagy) individuális énnek --korlátolt individuum-- (ātmā), aki (azonosított) a fizikai testtel (deha), finom testtel (puryaṣṭaka), stb. (ādiḥ). Hasonlóképpen (tathā), "an" (an) (jelentheti, hogy) "anana" (ananam) (vagy) "élet" (jīvanam), vagyis létezés (vṛttiḥ) mi jelen van (antargatā eva) a fizikai testben (deha) és így tovább (ādi), minek neve (ākhyā) "élet" (jīvan), (de) mi leginkább is (prāyā) híján (śūnya) van az Én-tudatosságnak (ahantā) (és mi) olyan erőkből (śakti), stb. áll (ādi), amik különböznek egymástól (bhinna-bhinna). (Ez a helyzet a tudóval), kit (yaḥ) úgy neveznek (abhihitaḥ) "az üresség tapasztalója" (śūnya-pramātā iti). Mivel Ő egyetlen Bhairava-ból áll (ekamayatvāt-bhairava), (Anuttara így Egy), kiben (yatra) felsőbbség (uttaratvam) (van jelen) azzal --mind az individuális énnel, mind az üresség tapasztalójával-- (tasya eva) kapcsolatosan, annak dominanciájával (ādhikyam) (együtt, hogy Ő) a Legmagasabb Valóság (parama-arthatayā) mindenhol (sarvatas) .
(Ebben) a világban (jagati), tele (bharite) élő és élettelen entitásokkal (jaḍa-ajaḍa), lévén az élettelen entitások (jaḍaiḥ) kizárólag az élőkben (jīvat) vannak jelen (ekamagnaiḥ), az előbbi létezik (sthīyate) --röviden, az élettelen dolgok léte az élő entitásokon alapszik--. És (ca) minden élő entitás (jīvatām... sarveṣām) élete (jīvanam) természetesen (nāma) kizárólag (ekam) az említett (prāk-uktam) (két Erő, mint) Tudása és Cselekvése (jñāna-kriyā-rūpam) a Legfőbb Úrnak (pārama-īśvaryam), önmagadban (vat-sva) és (api) másokban is (paratra) --vagyis önmagadban ugyanúgy, mint más élőlényekben--. Csak a test (deha... eva), stb. (csoportja az) (ādiḥ), ami különbözőnek (pṛthaktayā) látszik (bhāti) .
Ám (punar), Az (tad), ami (yad) "Prāṇana" vagy "Élet" (prāṇanam), Önmagától-ragyogó (sva-prakāśam) (és mindig) egységben (abhedena eva) (létezik minden tapasztalóban). És (ca) Ez (etad) bizonyosan (eva) a Legfőbb Valóság (parama-arthaḥ) .
Ahogy (yad) azt meghatározta (uktam) a legnagyobb tiszteletre méltó Utpaladeva (śrīmat-utpaladeva-pādaiḥ) :
"A Tudásból (jñānam) és (ca) Cselekvésből (kriyā) (álló duó), úgy tekintendő (matam), mint az élete (jīvanam), mind az élőlényeknek (jīvatām), (mind) a durva elemeknek (amik az ilyen élőlényeken alapulnak) (bhūtānām... iti)".
Következésképpen (tathā ca), "Tudás és Cselekvés" (jñāna-kriye) valójában (eva) "Jīvana" vagy "Élet" (jīvanam... iti) .
(15) Szintén (ca) "a" (az Anuttara-ban) (a iti) ez a (iyam) Kalā vagy Śakti (kalā), minek természete (yā... rūpā) az egyén saját (sva) Énjének (ātma) Ragyogása (camatkāra) (vagy) a Tudatosság (cit) Mozdulatlan (nistaraṅga) Óceánja (udadhi), (mely) a Természetes (naisargika) Nagy (mahā) Fényen (prakāśa) nyugszik (viśrānta), ami "amāyīya" --eme Természete Nagy Fény túl van Māyā-n-- (amāyīya) (és) nem szentesített a Veda-k által --nincs említése eme Természetes Nagy Fénynek a Veda-kban-- (aśrauta) (és) aki --azaz Kalā vagy Śakti-- szilárd (gā) mind (ubhaya) a bevezető (prathama), (mind) a végső (paryavasāna) szintjein (bhūmi) a Tökéletes (paripūrṇa) Én-tudatosságnak (aham-bhāva), minek formája (rūpa) tartalmazza (āmarśana) az univerzumot (viśva), ami tele van (maya) Śakti (śākta) ragyogó Örömével (ullāsa). A "nut" --szó szerint a mozgásba lendítés aktusa-- (nut) eme ("a"-nak vagy Śakti-nak) (tasyāḥ eva), egy princípium által (nayena), mi később kerül kifejtésre (vakṣyamāṇa), ez az (iyam), ami (yā) alkotja a Kiterjedés végkifejletét (visarga-antatā). (Végül,) a "tara"-ja (taraḥ) eme ("nut"-nak vagy "a Kiterjedés végkifejletének") (tasyāḥ eva) az úszás aktusa (plavanam), vagyis ahol (yatra) jelen van létezése (egy ilyen "nut"-nak) (vṛttitvam) minden (egyeben) (sarva) felül (upari) .
(16) "Anut" (anud), (mi) jól ismert (prasiddhyā) az "ākāśa" vagy "éter" (ākāśa), stb. (ādi) emberei között (loka), az (tad), ahol (yatra) nincs jelen (avidyamānā) "nut" (nud) (vagy) aktusa a mozgásba hozásnak --lendítés vagy nyomás-- (preraṇā), ami a dualitástól (dvaita) függ (sāpekṣā), a térben és időben (deśa-kāla), stb. (ādi) (való) jövés (āgamana) (és) menés (formájában) (gamana) (és) mi tele van (mayī) aktivitásokkal (kriyā), amik fokozatosságra (krama) alapszanak (ātmaka). Anuttaram (annutaram) (így hát úgy interpretálandó, mint "tara" vagy) felsőbb (sātiśayam) még ahhoz --"anut"-hogy vagy "éterhez"-- képest is (tatas api), mert (hi) eme "éter", stb. esetében (tasya api... ākāśa-ādeḥ), (jelen van) egy ilyen (īdṛśī) aktivitás (kriyā), mi fel van ruházva fokozatossággal (sakramā) annak edénnyel (saṁyogi-ghaṭa), stb. (ādi) való kapcsolatainak különböző (citra) megjelenései (upādhi) miatt (vaśāt) és (ca) mert (yogāt) közeli kapcsolata van a hanggal (samavāyi-śabda) és így tovább (ādi) .
Mindazonáltal (tu), a Princípiumban (tattve), (minek neve) Tiszta Tudatosság --vagyis Anuttara-- (saṁvid), minek esszenciája (sāre) a maradéktalanul (sarvatas) Tökéletes (pūrṇa) (és) Zavartalan (anavacchinna) Svātantrya --Abszolút Szabadság-- (svātantrya) Hatalma (aiśvarya), minek természete (ātmani) az "Aham" vagy "Én" (aham), teljesen kitöltve (paripūrita) minden (sakala) létező entitással --azaz létezőkkel-- (bhāva), az "Idantā"-ban vagy "Azságban" (idantā) nyugszik (āspada), egy érzéssel (bhāva), mi "elfogadottként" jelenik meg (upādhi) --Śiva esetében-- (svīkṛta) (és) "hezitál" --Anāśritaśiva vagy a kategóriák nélküli Śiva esetében-- (śaṅkyamāna), megnyugvása miatt (viśrāntyā) abban mi telve van (maya) egy Örömmel (camatkāra), (mit abban lel) mi megkülönböztetett --vagyis az univerzumban, amit Śakti nyilvánít meg-- (vicchinna), a (Princípiumban, minek neve Tiszta Tudatosság), ami bármiféle megjelenés nélkül való --vagyis nincs megnyilvánulás a Tiszta Tudatosságban-- (nis-ābhāse), (ám ezzel egy időben) szüntelen feltárul (sadā-bhāsamāne), ott, ahol nem volt megjelenés --vagyis az univerzum megnyilvánulatlan Anāśritaśiva számára, mivel Ő ebben a pillanatban hezitált-- (anābhāse), látható vált vagy megnyilvánult (ābhāsī-kṛta) az elfogadás által --az Úr Śiva nem hezitál és ezért Ő elfogadja a Śakti által megnyilvánított univerzumot-- (svīkāra) ; (itt, a Princípiumban, minek neve Tiszta Tudatosság,) az "Aktivitás" (kriyā), minek neve (abhidhā) Vimarśa" (vimarśa... iti) - (mi) jól ismert (prasiddhā) a Matsyodarī és Mata szövegekben (matsya-udarī-mata), stb. (ādi) (és) telve (mayī) az egyén saját (sva) Énjének (ātma) éberségéhez (vimarśa) (tartozó) hevességgel (saṁrambha) - híján van a "krama"-nak --szó szerint fokozatosság-- (akramā eva) (és) a térhez (deśa) és időhöz (kāla) tartozó (apekṣa) fokozatosság (krama) hiánya (abhāvāt) esetén, miknek magja (sāra) (mind) a megnyilvánulása --megjelenése-- (ābhāsa) az Azságnak --az univerzumnak-- (idantā) (és) Annak --az Azság vagy univerzum-- (tad) megnyilvánulatlansága--eltűnése-- (anābhāsa). Ez (a princípium, mi úgy ismert, mint Tiszta Tudatosság) (tad eva) Anuttara (anuttaram) --itt ér véget Abhinavagupta tizenhat interpretációja az Anuttara szóról--.
(Egy probléma: "Az Úrnő miért használta az "Anuttara" kifejezést az "Anuttama" helyett a Parātrīśikā első stanzájában? Abhinavagupta most feloldja ezt a problémát:) A nyelvtani szabály (vidhiḥ) a "tamap" toldalékra (ami megjelenik az "Anuttama"-ban, mint "tama") (tamapaḥ) (tételezi, hogy egy ilyen toldalék) egyszerűen fokozásként használatos (atiśaya-mātre). (Mindenesetre,) itt --ebben a kontextusban-- a "tarap" toldalék --ami "tara"-ként jelenik meg az "Anuttara-ban" (tarap) -- az "upapada" vagy "másodlagos szó" --alárendelt vagy másik szó-- értelmében (upapade), amikor van egy osztály (vibhajya), amit a kettes szám hoz létre (dvivacana) --"tarap" egy összehasonlító szerepben van itt használva--.
Az olyan körülmények között (tatra), (valaki mondhatja, hogy:) "Ez (ayam) fehér (śuklaḥ), ez (ayam) fehér (śuklaḥ) " --vagyis ez fehér, ez fehérebb"--. (És) ez (ayam) a jelentése (arthaḥ) (ennek a) kijelentésnek (vākye) : "E két (dolog) közül (anayoḥ), ez (ayam) kimagaslóan (atiśayena) fehér (śuklaḥ... iti), (vagyis úgymond,) e két dolog közül, amik fehérek (madhyāt- anayoḥ śuklayoḥ), ez (ayam) kimondottan (atiśayena) fehér (śuklaḥ), vagyis "fehérebb" (śuklataraḥ). De (tu), (ha valaki azt mondja:) "E --két vagy több-- (dolog) közül, amik fehérek (eṣām... śuklānām), ez (ayam) kimagaslóan (atiśayena) fehér (śuklaḥ... iti) --a legfehérebb--, mi (kaḥ) ebben (ayam) a további (adhikaḥ) jelentés (arthaḥ) ? Például (tathāhi) : Ez (ayam) a palota (prāsādaḥ) fehér (śuklaḥ), és (ca) ez (ayam) a ruha (paṭaḥ) fehér (śuklaḥ), ez (ayam) a hattyú (haṁsaḥ) fehér (śuklaḥ). Bár (tu), ezen (fehér dolgok) közül (eṣām), (van egy, ami) "śuklatama" (śukla-tamaḥ iti), vagyis rendkívül (fehér) (sātiśayaḥ) --vagyis a legfehérebb--. Ebben az esetben (tatra), (amikor) még (api... api) a palota (prāsādaḥ) is fehér (śuklaḥ) (és) a ruha (paṭaḥ) is fehér (śuklaḥ iti), (ez) milyen további információt határozott meg (kimiva adhikam uktam syāt) ?...
Jelenleg még teljes kifejtés nélkül
További Információ
Ezt a dokumentumot Gabriel Pradīpaka, a website egyik társalapítója készítette, aki spirituális guru és aki a Szanszkrit nyelv és a Trika filozófiai rendszerben jártas.
Szanszkrit, Yoga és indiai filozófiával kapcsolatosan, vagy ha csupán hozzászólni, kérdezni szeretnél, esetleg hibára felhívni a figyelmet, bátran lépj kapcsolatba velünk: Ez az e-mail címünk.
Vissza Stanzák 1 - 2 - 1. Rész | Folytatás Stanzák 1 - 2 - 3. Rész |